याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 328, कुल 782 में से
संदर्भ में पढ़ेंदर्शितैः पित्रोरूर्ध्वं विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दर्शितः—'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति । अतः सर्वस्मिन्नपि काले विषमो विभागोऽस्तीति कथं सममेव विभजेरन्निति नियम्यते ॥ अत्रोच्यते— सत्यम्, अयं विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः; 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु' ( आ० १५६ ) इति निषेधात् । यथा 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' ( आ० १०९ ) इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथा वा—'मैत्रावरुणीं गां वशामनु- बन्ध्यामालभेत' इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । उक्तं च—'यथा नियोगधर्मो ४नो नानुबन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' इति । ( नियोगमनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो 'देवराच्च सुतोत्पत्ति'रित्यादिः स नो भवति ) आपस्तम्बोऽपि ( आ० ध० २।१४।१ )—'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति ५समतामुक्त्वा— 'ज्येष्ठो दायाद इत्येके' ( आ० ध० २।१४।५ ) इति 'कृत्स्नधन' ग्रहणं ज्येष्ठ- स्यैकीयमतेनोपन्यस्य देशविशेषे६ सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः पितुः ७परीभाण्डं च गृहेऽलंकारो भार्याया ज्ञातिधनं चेत्येके' ( ध० २।१४। ६-९ ) इत्येकीयमतेनैवमुद्धारविभागं दर्शयित्वा 'तच्छास्त्रैर्विप्रतिषिद्धम्' ( आ० ध० २।१४।१० ) इति निराकृतवान् । तं च ८शास्त्रविप्रतिषेधं स्वयमेव दर्शयति स्म 'मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते' (अ० २।१४।११) इति । तस्माद्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच्छ्रुतिविरोधाच्च नानु- ष्ठेय इति सममेव विभजेरन्निति नियम्यते ॥— मातापित्रोर्धनं सुता विभजेरन्नित्युक्तं, तत्र मातृधनेऽपवादमाह— मातुर्दुहितरः शेषमृणात् मातृधनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतर्णपाकरणावशिष्टम् । अतश्चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति —मातृकृतमृणं पुत्रैरेवापाकरणीयं, न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्णीयुरिति । युक्तं चैतत्—'पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' ( मनुः ३।४९ ) इति स्त्र्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि, पितृधनं पुत्रगामि; पित्रवयवानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो १. दर्शितो मनुना । २. कथं विभजेरन्निति सममेव नियम्यते । ३. शास्त्र- दृष्टोऽस्ति । ४. धर्मोऽन्यो । ५. स्वमत्तमुक्त्वा । ६. विशेषेषु । विशेषेण । ७. परिभाण्डं । ८. विप्रतिषिद्धं । ९. कृतर्णं ।