भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

दर्शितैः पित्रोरूर्ध्वं विभजताम् । जीवद्विभागे च स्वयमेव विषमो विभागो दर्शितः—'ज्येष्ठं वा श्रेष्ठभागेन' ( व्य० ११४ ) इति । अतः सर्वस्मिन्नपि काले विषमो विभागोऽस्तीति कथं सममेव विभजेरन्निति नियम्यते ॥ अत्रोच्यते— सत्यम्, अयं विषमो विभागः शास्त्रदृष्टस्तथापि लोकविद्विष्टत्वान्नानुष्ठेयः; 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु' ( आ० १५६ ) इति निषेधात् । यथा 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' ( आ० १०९ ) इति विधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । यथा वा—'मैत्रावरुणीं गां वशामनु- बन्ध्यामालभेत' इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वादननुष्ठानम् । उक्तं च—'यथा नियोगधर्मो ४नो नानुबन्ध्यावधोऽपि वा । तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥' इति । ( नियोगमनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो 'देवराच्च सुतोत्पत्ति'रित्यादिः स नो भवति ) आपस्तम्बोऽपि ( आ० ध० २।१४।१ )—'जीवन्पुत्रेभ्यो दायं विभजेत्समम्' इति ५समतामुक्त्वा— 'ज्येष्ठो दायाद इत्येके' ( आ० ध० २।१४।५ ) इति 'कृत्स्नधन' ग्रहणं ज्येष्ठ- स्यैकीयमतेनोपन्यस्य देशविशेषे६ सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः पितुः ७परीभाण्डं च गृहेऽलंकारो भार्याया ज्ञातिधनं चेत्येके' ( ध० २।१४। ६-९ ) इत्येकीयमतेनैवमुद्धारविभागं दर्शयित्वा 'तच्छास्त्रैर्विप्रतिषिद्धम्' ( आ० ध० २।१४।१० ) इति निराकृतवान् । तं च ८शास्त्रविप्रतिषेधं स्वयमेव दर्शयति स्म 'मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते' (अ० २।१४।११) इति । तस्माद्विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच्छ्रुतिविरोधाच्च नानु- ष्ठेय इति सममेव विभजेरन्निति नियम्यते ॥— मातापित्रोर्धनं सुता विभजेरन्नित्युक्तं, तत्र मातृधनेऽपवादमाह— मातुर्दुहितरः शेषमृणात् मातृधनं दुहितरो विभजेरन् । ऋणाच्छेषं मातृकृतर्णपाकरणावशिष्टम् । अतश्चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्नित्यस्य विषयः । एतदुक्तं भवति —मातृकृतमृणं पुत्रैरेवापाकरणीयं, न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्णीयुरिति । युक्तं चैतत्—'पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः' ( मनुः ३।४९ ) इति स्त्र्यवयवानां दुहितृषु बाहुल्यात् स्त्रीधनं दुहितृगामि, पितृधनं पुत्रगामि; पित्रवयवानां पुत्रेषु बाहुल्यादिति । तत्र च गौतमेन विशेषो १. दर्शितो मनुना । २. कथं विभजेरन्निति सममेव नियम्यते । ३. शास्त्र- दृष्टोऽस्ति । ४. धर्मोऽन्यो । ५. स्वमत्तमुक्त्वा । ६. विशेषेषु । विशेषेण । ७. परिभाण्डं । ८. विप्रतिषिद्धं । ९. कृतर्णं ।

व्यवहाराध्यायः २७३ दर्शितः ( २८।२४ )—'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति । अस्यार्थः—प्रत्ताऽप्रत्तासमवायेऽप्रत्तानामेव स्त्रीधनम् । प्रत्तासु च प्रतिष्ठिताप्रति- ष्ठितासमवायेऽप्रतिष्ठितानां चेवेति । अप्रतिष्ठिता निर्धनाः ॥— दुहित्रभावे मातृधनमृणावशिष्टं को गृह्णीयादित्यत आह— ताभ्य ऋतेऽन्वयः ॥ ११७ ॥ ताभ्यो दुहितृभ्यो विना दुहितॄणामभावे अन्वयः पुत्रादिर्गृह्णीयात् । एतच्च—'विभजेरन्सुताः पित्रोरूर्ध्वम्' ( व्य० ११७ ) इत्यनेनैव सिद्धं स्पष्टार्थ- मुक्तम् ॥ ११७ ॥ भाषा—माता और पिता की मृत्यु के बाद सभी पुत्र मिल कर पिता की सम्पत्ति एवं ऋण का बराबर-बराबर विभाजन कर लें । माता का धन पुत्रियाँ बाँट लें और पुत्रियाँ न हों तो ( माता का धन भी ) पुत्र ग्रहण करें ॥११७॥ अविभाज्यमाह— पितृद्रव्याविरोधेन यदन्यत् स्वयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ ११८ ॥ क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ ११९ ॥ मातापित्रोर्द्रव्याविनाशेन यत्स्वयमर्जितं, मैत्रं मित्रसकाशाल्लब्धं, औद्वाहिकं विवाहलब्धं दायादानां भ्रातृणां तन्न भवेत् । क्रमात्पितृक्रमादायातं यत्किञ्चिद्द्रव्यं अन्यैर्हतमसामर्थ्यादिना पित्रादिभिरनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यात्, उद्धर्तैव गृह्णीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते, शेषं तु सर्वेषां सममेव । यथाह शङ्खः—'पूर्वं नष्टां तु यो भूमिमेकश्चेदुद्धरेत्क्रमात् । यथाभागं लभन्तेऽन्ये दत्त्वांशं तु तुरीय- कम् ॥' इति । क्रमादभ्यागतमिति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल्लब्धं तदपि दायादेभ्यो न दद्यात्, अर्जक एव गृह्णीयात् । अत्र च 'पितृद्रव्याविरोधेन यत्किंचित्स्वयमर्जितम् ॥' इति सर्वत्र शेषः । अतश्च पितृद्रव्याविरोधेन यन्मैत्रमर्जितं पितृद्रव्याविरोधेन यदौद्वाहिकं, पितृद्रव्याविरोधेन यत्क्रमादायातमुद्धृतं, पितृद्रव्याविरोधेन विद्यया यल्लब्धमिति प्रत्येकमभिसंबध्यते । तथा च पितृद्रव्याविरोधेन प्रत्युपकारेण यन्मैत्रम् , आसुरादिविवाहेषु यल्लब्धम् , तथा पितृद्रव्यव्ययेन यत्क्रमायातमुद्धृतं तथा पितृद्रव्यव्ययेन लब्धया विद्यया यल्लब्धम् , तत्सर्वं सर्वैर्भातृभिः पित्रा च १. मभ्युद्धरेत्तु । २. सर्वत्र शेषः । ३. क्रमायातं ।

२७४ याज्ञवल्क्यस्मृतिः

विभेजनॊयम् १ । तथा ‘पितृद्रव्याविरोधेन’ इत्यस्य सर्वशेषत्वादेव पितृद्रव्य- विरोधेन प्रतिग्रहलब्धमपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वा- हिकमित्यादिनारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन्मैत्रादिलब्धं तस्या- विभाज्यत्वाय मैत्रादिवचनमर्थवदित्युच्यते । तथा सति समाचारविरोधः, विद्या- लब्धे नारदवचनविरोधश्च ।—‘कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छतः । भागं विद्याधनात्तस्मात्स लभेताश्रुतोऽपि सन् ॥’ (नारदः १३।१०) इति । तथा विद्याधनस्याविभाज्यस्य लक्षणमुक्तं कात्यायनेन—‘परभक्तोपयोगेन विद्या प्राप्ता- न्यतस्तु या । तया लब्धं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥’ इति । तथा ‘पितृ- द्रव्याविरोधेन’ इत्यस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वमाचारविरुद्धा२- मापद्येत । एतदेव स्पष्टीकृतं मनुना ( ९।२०८)—‘अनुपघ्नन्पितृद्रव्यं श्रमेण यदुपार्जितम् । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥’ इति श्रमेण सेवा- युद्धादिना । ननु पितृद्रव्याविरोधेन यन्मैत्रादिलब्धं द्रव्यं तदविभाज्यमिति न वक्तव्यम् ; विभागप्राप्त्यभावात् । यद्येन लब्धं तत्तस्यैव, नान्यस्येति प्रसिद्ध- तरम् । प्राप्तिपूर्वकश्च प्रतिषेधः ३ । अत्र कश्चिदिथं प्राप्तिमाह—‘यत्किञ्चित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति । भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥’ ( मनुः ९।२०४ ) इति । ज्येष्ठो वा कनिष्ठो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्यसति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति,—तदसत्; नह्यत्र प्राप्तस्य प्रतिषेधः, किंतु सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्येव प्रायेणास्मिन्प्रकरणे वचनानि । अथवा ‘समवेतैस्तु यत्प्राप्तं सर्वं तत्र समांशिनः ।’ इति प्राप्तस्या- पवाद इति संतुष्यतु भवान् । अतश्च ‘यत्किञ्चित्पितरि प्रेते’ इत्यस्मिन्वचने ज्येष्ठादिपदाविवक्षया प्राप्तिरिति व्यामोहमात्रम् । अतो मैत्रादिवचनैः पितुः प्रागूर्ध्वं वा४विभाज्यत्वेनोक्तस्य ‘यत्किंचित्पितरि प्रेते’ इत्यपवादं ५ इति व्याख्ये- यम् । तथाऽन्यदप्यविभाज्यमुक्तं मनुना ( ९।२१९ )—‘वस्त्रं पत्रमलंकारं कृता- न्नमृदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥’ इति । धृतानामेव वस्त्राणामविभाज्यत्वं, यद्येन धृतं तत्तस्यैव । पितृधृतवस्त्राणि ६ तु पितुरूर्ध्वं विभ- जतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः—‘वस्त्रांलंकारशय्यादि पितुर्य- द्वाहनादिकम् । गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥’ इति । अभिन- वानि तु वस्त्राणि विभाज्यान्येव । पत्रं वाहनमश्वशिविकादि, तदपि यद्येनारूढं तत्तस्यैव । पित्र्यं तु वस्त्रवदेव, अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभा-

१. समं विभजनीयं । २. विरोधाच्चापद्येत । ३. निषेधः । ४. चाविभाज्य । ५. इत्यस्यापवाद । ६. पितृधृतानि ।

व्यवहाराध्यायः २७५ ज्येष्ठस्यैव । वैषम्येणाविभाज्यत्वे ज्येष्ठस्य ( मनुः ९।११९ ) - 'अजाविकं सैक- शफं न जातु विषमं भजेत् । अजाविकं सैकैशफं ज्येष्ठस्यैव विधीयते ॥' इति मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव । ( मनुः ९।२०० ) - 'पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥' इति । 'अलंकारो धृतो भवेत्' इति ३विशेषेणोपादानादधृतानां विभाज्यत्वं गम्यते । कृतान्नं तण्डुलमोद- कादि तदप्यविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कृपादि, तच्च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः, पर्यायेण कर्म कारयितव्याः । अवरुद्धास्तु पित्रा स्वैरिण्याद्याः समा अपि पुत्रैर्न विभाज्याः । 'स्त्रीषु च संयुक्तास्वविभागः' ( २८।०- ४६) इति गौतमस्मरणात् । योगश्च क्षेमश्च योगक्षेमम् । 'योग'शब्देनालब्धलाभ- कारणं श्रौतस्मार्ताग्निसाम्यं इष्टं कर्म लक्ष्यते । 'क्षेम'शब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूर्तं कर्म लक्ष्यते । तदुभयं पैतृकमपि पितृद्रव्य विरोधाजितमप्यविभाज्यम् । यथाह लौगाक्षिः- 'क्षेमं पूर्तं योगमिष्ट- मित्याहुस्तत्त्वदर्शिनः । अविभाज्ये च ते प्रोक्ते शयनासनमेव च ॥' इति । 'योगक्षेम' शब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते-इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्यन्ये । प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः सोऽप्यविभाज्यः । यत्तूशनसा क्षेत्रस्याविभाज्यत्वमुक्तम्- 'अविभाज्यं सगोत्राणामासहस्रकुलादपि । याज्यं क्षेत्रं च पत्रं च कृतान्न- मुदकं स्त्रियः ॥' इति, तद्ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम् । 'न प्रतिग्रह- भूर्देया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमार्जितस्याविभाज्यत्वमनन्तरमेव वक्ष्यसि । पितृद्रव्य- विरोधेन यदार्जितं तद्विभजनीयमिति स्थितं, तत्रार्जकस्य भागद्वयं; वसिष्ठ- वचनात्- 'येन चैषां स्वयमुपार्जितं स्यात्स द्वयंशमेव लभेत' ( १७।५१ ) इति ॥ ११८-११९ ॥ भाषा - माता पिता के धन की सहायता के बिना स्वयं कहीं से स्वयं उपार्जित धन, मित्र से मिले हुए तथा विवाह में प्राप्त धन में भाइयों का हिस्सा नहीं होता । पितृ परम्परा से आया हुआ धन, जिसे किसी और ने बलपूर्वक अधिकार में किया हो, छुड़ाने वाले पुत्र का होता है, उसमें से १. तु विषमं-मनुस्मृतिः । २. पतन्त्यधः । ३. विशेषस्योपादाना । ४. करणं । १८ या०

२०६ याज्ञवल्क्यस्मृतिः भाइयों को अंश न देवे; तथा अपनी विद्या के द्वारा प्राप्त धन में भी दायादों का अंश नहीं होता ॥ ११८-११९ ॥ अस्यापवादमाह— सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अविभक्तानां भ्रातृणां सामान्यस्यार्थस्य कृषिवणिज्यादिना संभूय समुत्थाने सम्प्रवर्धने केनचित्कृते सम एव विभागो नार्जयितुरं²शद्वयम् ॥— पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः; इदानीं पैतामहे पौत्राणां विभागे विशेषमाह— अनेकपितृकाणां तु पितृतो भागकल्पना ॥ १२० ॥ यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं, तथापि तेषां पितृद्वारेणैव पैतामहद्रव्ये³ विभागकल्पना, न स्वरूपापेक्षया । एतदुक्तं भवति—यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिवं गतास्तदैकस्य द्वौ पुत्रौ, अन्यस्य त्रयोऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं ५स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येकमंशं पित्र्यं, चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचि- त्पुत्रेषु म्रियमाणेषु केषुचित्पुत्रानुत्पाद्य विनष्टेष्वप्ययमेव न्यायः । म्रियमाणाः स्वानंशानेव लभन्ते, नष्टानामपि पुत्राः पित्र्यानेवांशांल्लभन्त इति वाचनिकी व्यवस्था ॥ १२० ॥ भाषा—विभाजन के पहले भाइयों के एक में रहते समय के सामान्य धन की कृषि व्यापार आदि से वृद्धि होने पर उसमें सबका समान अंश होता है । पितामह के धन में पिता के अंश के आधार पर ही पुत्र के अंश का निर्धारण होता है ( अर्थात् पितामह की सम्पत्ति में अपने-अपने पिता का भाग लगाकर और फिर अपने-अपने पिता के भाग में अपने अंश का भाग लगाने पर ही पौत्र का भाग आता है ॥ १२० ॥ अधुना विभक्ते पितर्यविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । ६अध्रियमाणे पितरि ‘पितृतो भागकल्पना’ (व्य० १२०) इत्युक्तत्वात् । भवतु वा स्वार्जितवत्पितुरिच्छयैवेत्याशङ्कित आह— भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य ७चैव हि ॥ १२१ ॥ १. साधारणस्यार्थस्य । २ भागद्वयम् । ३. द्रव्यविभाग । ४. पित्रंशं । ५. द्वयमेव । ६. म्रियमाणे तु पितरि । ७. चोभयोः ।

व्यवहाराध्यायः २७७

भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभेरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभेरकस्येयन्ति क्रमुकफलानीत्याद्युक्तलक्षणः । द्रव्यं सुवर्णरज- तादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वौत्थं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । हि यस्मात्तत्सदृशं समानम् , तस्मान्न पितुरिच्छयैव विभागो नापि पितुर्भागद्वयम् । अतश्च ‘पितृतो भागकल्पना’ ( व्य० १२० ) इत्येतत्स्वाम्ये समेऽपि वाचनिकम् । ‘विभागं चेत्पिता कुर्यात्’ ( व्य० ११४ ) इत्येतत्स्वार्जितविषयम् । तथा—‘द्वावंशौ प्रतिपद्येत विभजन्ना- त्मनः पिता’ ( नारदः १३।१२ ) इत्येतदपि स्वार्जितविषयम् । ‘जीवतोश्च- तन्त्रः स्याज्जरायापि समन्वितः’ इत्येतदपि पारतन्त्र्यं मातापित्रर्जितद्रव्यवि- षयम् । तथा—‘अनीशास्ते हि जीवतोः’ इत्येतदपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽ- प्यधिकारः, पित्रर्जिते न तु निषेधाधिकारः, तत्परतन्त्रत्वात् । अनुमतिस्तु कर्तव्या । तथा हि—पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनाैव, तथापि पैतृके पितृपरतन्त्रत्वात् पितुश्चार्जकत्वेन ३ प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यमविशिष्टमिति निषेधा- धिकारोऽप्यस्तीति विशेषः । मनुरपि ( ९।२०९ ) ‘पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥’ इति । यत्पितामहार्जितं केनाप्यपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत्स्वार्जितमिव पुत्रैः सार्ध- मकामः स्वयं न विभजेदिति वदन् पितामहार्जितमकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेदिति दर्शयति ॥ १२१ ॥

भाषा—जो भूमि, निबन्ध ( चुङ्गी आदि ) एवं धन पितामह ने उपा- र्जित किये हों उसमें भी उपरोक्त के समान ही पहले पिता का भाग लगाकर फिर उसके अन्तर्गत पुत्र का भाग होता है ॥ १२१ ॥

विभागोत्तरकालमुत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्यत आह— विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । विभक्तेषु पुत्रेषु पश्चात्सवर्णायां भार्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर्विभागस्तं भजतीति विभागभाक्; पित्रोरूर्ध्वं तयोरंशं लभत इत्यर्थः । मातृभागं चासत्यां दुहितरि, ‘मातुर्दुहितरः शेषम्’ ( व्य०


१. भारकस्य । २. स्वाम्यमर्थसिद्धमिति । ३. पितुः स्वार्जकत्वेन । ४. कारोऽप्यस्तीति ।

३७८ : याज्ञवल्क्यस्मृतिः ११७) इत्युक्तत्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्याल्लभते, मातृकं तु सर्वमेव । एतदेव मनुनोक्तम् ( ९।२१६) —'ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्' इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ; 'अनीशाः पूर्वजाः पित्रोर्भ्रातृ- र्भागे विभक्तजः' इति स्मरणात् । विभक्तयोर्माता पित्रोर्विभागे विभागात्पूर्व- मुत्पन्नो न स्वामी, विभक्तजश्च भ्रातृभागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदूर्जितं तत्सर्वं विभक्तजस्यैव; 'पुत्रैः सह विभक्तेन पित्रा यत्स्वय- मर्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥' इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः पितुरूर्ध्वं तैः सार्धं विभक्तजो विभजेत् । यथाह मनुः ( ९।२१६ )—'संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह' इति ॥— पितुरूर्ध्वं पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह— दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ १२२ ॥ तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर- कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्भातृभिर्गृहीता- द्धनात् । कीदृशात् ? आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यदुत्पद्यते, व्ययः पितृकृतर्णापाकरणं, ताभ्यामायव्ययाभ्यां यच्छो- धितं तत्तस्मादुद्धृत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति — प्रातिस्विकेषु भागेषु तदुत्थमायं प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः^३ किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच्च विभागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूर्ध्वमुत्पन्न- स्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः ( १७।४१ )—'अथ भ्रातॄणां दायविभागो याश्चानपत्याः स्त्रियस्तासा- मापुत्रलाभात्' इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२॥ भाषा—पुत्रों में सम्पत्ति का विभाजन होने के कुछ कालोपरान्त यदि सवर्णा पत्नी से पुत्र उत्पन्न होता है तो वह भी भाग का अधिकारी होता है । पिता के मरने पर यदि भाइयों के विभाग के समय माता को गर्भ हो किन्तु वह ज्ञात न हो और उससे विभाग होने के कुछ कालोपरान्त पुत्र होवे तो आय- व्यय का हिसाब करके उसमें से उसे भाग देना चाहिए ॥ १२२ ॥ १. मातृभागं तु सर्वमेव । मातृभागं । २. कृतमृणं । ३. भागेभ्यो यत्किंचिदुद्धृत्य । ४. समये भ्रातुर्भार्यायामप्रजायामस्पष्टगर्भायां स्वभागा । समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्ध्वं ।

[Page Header] व्यवहाराध्यायः २७६

[Main Text] विभक्तजः पित्र्यं मातृकं च सर्वं धनं गृह्णातीत्युक्तं, तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशादाभरणादिकं प्रयच्छति, तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यः; नापि दत्तं प्रत्याहर्तव्यमित्याह— पितृभ्यां यस्य यद् दत्तं तत्तस्यैव धनं भवेत् । मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि, तत्त- स्यैव १ पुत्रस्य, न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यद्दत्तं तत्तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूर्ध्वं विभजतां यस्य यद्दत्तं तत्तस्यैव, नान्यस्येति वेदितव्यम् ॥- जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनामुक्तं, 'यदि कुर्यात्समानांशान्' (व्य० ११५) इत्यादिना । पितुरूर्ध्वं विभागेऽपि पत्नीनां स्वपुत्रसमांशित्वं दर्श- यितुमाह— पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेत् ॥ १२३ ॥ पितुरूर्ध्वं पितुः प्रयाणादूर्ध्वं ३ विभजतां मातापि स्वपुत्रांशसममंशं हरेत् ,- यदि स्त्रीधनं न दत्तम् ; दत्ते त्वर्धांशहारिणीति वक्ष्यते ४ ॥ १२३ ॥ भाषा—माता-पिता जिस (विभक्त) पुत्र को जो वस्तु देते हैं वह उसी का धन होता है। पिता की मृत्यु के बाद (यदि स्त्रीधन न मिला हो) तो विभाग के समय माता भी पुत्रों के बराबर अंश ग्रहण करे ॥ १२३ ॥ पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति, तदा तत्संस्कारे कोऽधिक्रियत इत्यत आह— ५ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । पितुरूर्ध्वं विभजद्भिर्भ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः ॥- असंस्कृतासु भगिनीषु विशेषमाह— भगिन्यश्च निजादंशाद् दत्त्वांशं तु तुरीयकम् ॥ १२४ ॥ अस्यार्थः—भगिन्यश्चासंस्कृताः ६ संस्कर्तव्या भ्रातृभिः। किं कृत्वा ? निजादंशाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूर्ध्वमंशभागिन्य इति गम्यते । तत्र 'निजादंशात्' इति प्रत्येकं परिकल्पितादंशादुद्धृत्य चतुर्थांशो दातव्य ७ इत्येवमर्थो न भवति, किंतु यज्जातीया कन्या, तज्जातीयपुत्रभागाच्चतु-

[Footnotes] १. तस्यैव । २. मातुः स्वपुत्र । ३. प्रयाणा । ४. वक्ष्यति । ५. असंस्कृ- ताश्च । ६. संस्कार्याः । ७. इत्येवमर्थो । इत्यर्थो ।

२५० याज्ञवल्क्यस्मृतिः र्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति—यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति, तस्य चतुर्थांशस्तस्या भवति । तद्यथा—यदि कस्यचिद् ब्राह्मोगस्यैका पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णी- यात् ; यदा तु द्वौ पुत्रौ एका च कन्या, तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः; अथ त्वेकः पुत्रो द्वे कन्ये, तदा पित्र्यं धनं त्रिधा विभज्य एकं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वाऽवशिष्टं सर्वं पुत्रो गृह्णातीत्येवं समानजा- तीयेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रिया- कन्या चैका, तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागंस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यदा तु द्वौ ब्राह्मणी- पुत्रौ क्षत्रियाकन्या चैका, तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्म- णीपुत्रा विभज्य ⁶गृह्णीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च⁷ 'निजादंशाद्दश्वांशं तु तुरीयक'मिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्वेति व्याख्यानं युक्तम् । मनुवच- नाविरोधात् ( ९।११८ )—'स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भातृरः पृथक् । स्वात्स्वाद्दंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' इति । अस्यार्थः—ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः चेभ्यः स्वजातिविहितेभ्योऽशेभ्यः 'चतुरों- ऽशान्हरेद्विप्र' ( मनुः ९।१५३ ) इत्यादिवक्ष्यमाणेभ्यः स्वात्स्वात्तदंशादात्मीया- दात्मीयाद्भागाच्चतुर्थं चतुर्थं भागं दद्युः । न चात्मीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते, किंतु स्वजातिविहितादेकस्मादेकस्मादंशात्पृथक्पृथगेकस्याप्येकस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । 'पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणादवश्यदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानमेव विवक्षित- मिति चेन्न । स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवा- यश्रवणाच्चेति । यदपि कैश्चिदुच्यते—अंशदानविवक्षायां बहुभ्रातृकायाः ⁹बहु- धनत्वं, बहुभगिनीकस्य च निर्धनता प्राप्नोतीति, तदुक्तरीत्या परिहृतमेव ।

१. कस्यचिद्ब्राह्मणस्यैका । २. अथ तु । ३. गृह्णीयात् एवं । ४. पित्र्यं धनं । ५. गृह्णीयात् । ६. गृह्णीयाताम् । ७. नच दशांशं तु । ८. संस्कारोप- योगि । ९. बहुधनकत्वं ।

व्यवहारोध्यायः २८१ नह्यात्मीयाङ्गादुद्धृत्य चतुर्थांशस्य दानमुच्यते येन तथा स्यात् ; अतोऽस- हायमेधातिथिप्रभृतीनां व्याख्यानमेव चतुरस्रं, न भारुचेः । तस्मात्पितुरूर्ध्वं कन्याप्यंशभागिनी पूर्वं चेद्यत्किंचित्पिता ददाति, तदेव लभते; विशेषवचना- भावादिति सर्वमनवद्यम् ॥ १२४ ॥ भाषा—पिता की मृत्यु के बाद यदि भाई विभाजन करें तो जिन भाइयों का संस्कार न हुआ हो उनका संस्कार सबके सम्मिलित धन द्वारा होना चाहिए और बहनों का विवाह-संस्कार न हुआ हो तो सभी भाई अपने भाग से चतुर्थांश देकर उनका संस्कार करें ॥ १२४ ॥ एवं 'विभागं चेत्पिता कुर्यात्' (व्य० ११४) इत्यादिना प्रबन्धेन समा- नजातीयानां भ्रातॄणां परस्परं पित्रा च सह विभागस्तृप्तिरुक्ता; अधुना भिन्न- जातीयानां विभागमाह— चतुस्त्रिद्वयेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजास्त्रिद्वयेकभागा विड्जास्तु द्व्येकभागिनः ॥ १२५ ॥ 'तिस्रो वर्णानुपूर्व्येण' (आ० १७) इति ब्राह्मणस्य चतस्रः, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे, शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणी- स्पन्ना वर्णशः—'वर्ण'शब्देन ब्राह्मणादिर्वर्णाः स्त्रिय उच्यन्ते । 'संख्याकवचनाच्च वीप्सायाम्' (पा० ५।४।४३) इत्यधिकरणकारकादेकवचनाद्वीप्सायां शस् । अतश्च वर्णे वर्णे ब्राह्मणोत्पन्नाः४ यथाक्रमं चतुस्त्रिद्वयेकभागाः स्युर्भवेयुः । एत- दुक्तं भवति—ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकश्चतुरश्चतुरो भागान्ल्लभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः, 'वर्णशः' इत्यनुवर्तते; यथाक्रमं; त्रिद्वयेकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् , वैश्यायां द्वौ द्वौ, शूद्रायामेकमे- कम् । विड्जाः वैश्येनोत्पन्नाः । अत्रापि 'वर्णश' इत्यनुवर्तते, यथाक्रमं द्व्येक- भागिनः । वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्राया- मेकमेकम् । 'शूद्रस्यैकैव भार्या' इति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः; यद्यपि 'चतुस्त्रिद्वयेकभागा' इत्यविशेषेणोक्तं, तथापि प्रतिग्रह- प्राप्तभूव्यतिरिक्तविषयमिदं द्रष्टव्यम् । यतः स्मरन्ति—'न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषा पिता दद्यान्मृते विप्रौसुतो हरेत् ॥' इति । प्रतिग्रहग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य १. चरिष्ठं, न भागुरेः । २. विड्जौ तु द्वयेकभागिनौ । ३. वर्णास्त्रय उच्यन्ते । ४. १०का एकैकश्चतुस्त्रि।

विशेषप्रतिषेधाच्च । 'शूद्रायां द्विजातिभिर्जातो न भूमेर्भागमर्हति' इति । यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुनः ( मनुः९।१५५ )—'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थ- भाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति, तदैकांशभागित्यविरुद्धम् ॥ १२५ ॥ भाषा—वर्णानुसार ब्राह्मण के (क्रमशः चार वर्णों की पत्नियों से उत्पन्न) पुत्रों के चार, तीन, दो और एक भाग होते हैं; क्षत्रिय के ( क्रमशः क्षत्रिया, वैश्या और शूद्रा पत्नी से उत्पन्न ) पुत्रों का तीन, दो और एक भाग, वैश्य के ( क्रमशः वैश्या और शूद्रा पत्नियों से उत्पन्न ) पुत्रों के दो और एक भाग होते हैं ॥ १२५ ॥ अथ सर्वविभागशेषे किंचिदुच्यते— अन्योन्यापहृतं $^१$द्रव्यं विभक्ते यत्तु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ १२६ ॥ परस्परपहृतं समुदायद्रव्यं विभागकाले $^३$चाज्ञातं विभक्ते पितृधने यद्- दृश्यते, तत्समैरंशैर्विभजेरन्नित्येवं स्थितिः शास्त्रमर्यादा । अत्र 'समैरंशैः' इति वदतोद्धारविभागो निषिद्धः । विभजेरन्निति वदता येन दृश्यते तेनैव न ग्राह्य- मिति दर्शितम् । एवं च वचनस्यार्थवत्त्वान्न समुदायद्रव्यापहारे दोषाभावपर- त्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दर्शितो न कनीयसाम् ( मनुः९।२१३ ) 'यो$^४$ ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन्यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥' इति वचनात् $^६$। नैतत् ; यतः संभावित- स्वातन्त्र्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः श्रूयते । गौतमः—'यो वै भागिनं भागान्नुदते चयते चैनं स यदि चैनं न चयतेऽथ पुत्रमथ पौत्रं चयत'इति । यो भागिनं भागार्हं भागान्नुदते भागादपा- करोति भागं तस्मै न प्रयच्छति, स भागान्नुन्न एनं नोत्तारं चयते नाशयति दोषीणं करोति; यदि तं न नाशयति, तदा तस्य पुत्रं पौत्रं वा नाशयतीति, ज्येष्ठविशेष- मन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनो- ऽपि स्वं भवतीति स्वत्वबुद्ध्या गृह्यमाणं न दोषमावहतीति मतम् । तदसत् , १. प्रप्तं । २. यदि दृश्यते । ३. वा ज्ञातं । ख ज्ञातं । ४. यो लोभाद्वि- निकुर्वीत । ५. चोत्तारं । ६. श्रूयते ।

व्यवहाराध्यायः २८३ स्वबुद्ध्या गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानुप्रवेशाद्दोष- मावहत्येव । यथा मौद्गे चरौ विपक्षे सहशतया माषेषु गृह्यमाणेषु 'अयज्ञिया वै माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वप- क्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्रविशत्येवेति सिद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारणद्र- व्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ ॥ भाषा-विभाग के समय आपस में छिपाकर रखा गया धन यदि पितृ- धन के विभाग के उपरान्त दिखाई पड़े तो वे सभी भाई उसका समान अंश करके विभाजन कर लें; यही नियम है ॥ १२६ ॥ द्व्यामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह— अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७ ॥ 'अपुत्रां गुर्वनुज्ञातः' (आ० ६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्रः उभयोर्बीजिक्षेत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः—यदाऽसौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य १ क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति, स द्विपित्रिको द्व्यामुष्यायणो द्वयोरपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते २, तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति, न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो ३ वेति । यथोक्तं मनुना (९।५३)—'क्रियाभ्युपगमात्क्षेत्रं बीजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥' इति । क्रियाभ्युपगमादिति अत्रोत्पन्न- मपत्यमावयोरुभयोरपि भवत्विति संविदङ्गीकरणाद्यत्क्षेत्रं क्षेत्रस्वामिना ५बीजाव- पनार्थं बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा (मनुः ९।५२)—'फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्बलीयसी ॥' इति । फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसंधाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी; गवाश्वादिषु तथा दर्शनात् । अत्रापि ६नियोगो वाग्दत्ताविषय एव; इतरस्य नियोगस्य मनुना निषिद्धत्वात् (९।५९, ६०) - 'देवराद्वा सपिण्डाद्वा स्त्रिया १. अपरस्य । २. प्रवर्तते । ३. पिण्डदाता च । ४. करणेन यत्क्षेत्रं । ५. बीजवापनार्थं । ६. तथानियोगो ।

[Page-header] २८४ याज्ञवल्क्यस्मृतिः [/Page-header]

सम्यङ्ङियुक्तया । प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिह्वये ॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥' इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधति ( ९।६४,६८ )—'नान्य- स्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाहविधावुक्तं विधवावेदनं पुनः ॥ अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा। वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं गर्हन्ते तं हि साधवः ॥' इति ॥ न च विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् ; नियोक्तॄणां निन्दाश्रवणात् , स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात् , संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव ( ५।१५७ )—'कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥' इति जीवनार्थं पुरुषान्त- राश्रयणं प्रतिषिध्य ( मनुः ५।१५८।१६१ )—'आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥' इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्- विहितप्रतिषिद्धत्वाद्विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धर्म्यो नियोग इत्यत आह ( मनुः ९।६९।७० )—'यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथा- विध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ ॥' इति। यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेव वचनादवगम्यते । तस्मिन्प्रेते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीय अनेन विधानेन घृताभ्य- ङ्गादिनियमादिनां शुक्लवस्त्रां शुचिव्रतां मनोवाक्कायसंयतां मिथो रहस्यागर्भग्रह- णात्प्रत्यृत्वेकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनियमवत् , नियुक्ताभिगमनाङ्गमिति न देवरस्य; भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिन एव भवति, न देवरस्य संविदा तूभयोरपि ॥ १२७ ॥ भाषा—पुत्रहीन देवर आदि द्वारा दूसरे की पत्नी से नियोग विधि से

[Page-footer] १. तं विगर्हन्ति-मनुः । २. विध्यभिगम्यैनां । [/Page-footer]

व्यवहाराध्यायः २८५ उत्पन्न पुत्र दोनों की सम्पत्ति का अधिकारी होता है और धर्मानुसार पिण्ड- दान देने वाला होता है ॥ १२७ ॥ समानासमानजातीयानां पुत्राणां विभागक्लृप्तिरुक्ता, अधुना मुख्यगौण- पुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस्तेषां स्वरूपं तावदाह— औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ १२८ ॥ उरसो जात औरसः पुत्रः, स च धर्मपत्नीजः–सवर्णा धर्मविवाहोढा धर्मपत्नी, तस्यां जात औरसः पुत्रो मुख्यः । तत्समः पुत्रिकासुतः तत्सम औरससमः, पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः-'अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पुत्रिकैव सुतः पुत्रिकासुतः; सोऽप्यौ- रससम एव पित्रवयवानामल्पत्वात् , मात्रवयवानां बाहुल्याच्च; यथाह वसिष्ठः ( १७।१५ )—'तृतीयः पुत्रिकैव' इति । तृतीयः पुत्रः पुत्रिकैवेत्यर्थः । द्व्यामुष्या- यणस्तु जनकस्यौरसोदपकृष्टः; अन्यक्षेत्रोत्पन्नत्वात् । 'क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥ १२८ ॥ भाषा—धर्मपूर्वक विवाहिता सवर्णा पत्नी से उत्पन्न पुत्र औरस होता है पुत्रिकासुत ( पुत्री का पुत्र, नाती अथवा एकमात्र पुत्री जो पुत्र सी होती है ) उस ( औरस पुत्र ) के समान ही होता है । क्षेत्रज और क्षेत्रजात पुत्र सगोत्र या दूसरे सपिण्ड आदि द्वारा उत्पन्न होता है ॥ १२८ ॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्नं उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णात्स मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता, अथोढा तदा वोढुरेव पुत्रः । यथाह मनुः ( ९।१७२ )— 'पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासं- मुद्भवम् ॥' इति ॥ १२९ ॥ भाषा—घर में ( भिन्न जाति के पुरुष संसर्ग के कारण ) प्रच्छन्न रूप से उत्पन्न पुत्र गूढज कहलाता है और कुँवारी कन्या से उत्पन्न कानीन मातामह अर्थात् नाना का पुत्र होता है ॥ १२९ ॥ १. स्यौरसान्निकृष्टो ।

२८६ याज्ञवल्क्यस्मृतिः अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ १३० ॥ पौनर्भवस्तु पुत्रोऽक्षतायां क्षतायां वा पुनर्भ्वां सवर्णादुत्पन्नः । मात्रा भर्त्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यस्मै दीयते, स तस्य दत्तकः पुत्रः । यथाह मनुः ( ९।१६८ )—'माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥' इति । आपद्ग्रहणादनापदि न देयः; दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । 'न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' ( १५।२ ) इति वसिष्ठस्मरणात् । तथाऽनेकपु- त्रसद्भावेऽपि ज्येष्ठो न देयः । 'ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः' ( मनुः ९।१०६ )—इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश्च 'पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर्हुत्वा अदूर- बान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्' इति वसिष्ठेनोक्तः । 'अदूरबान्धवम्' इत्यत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः १ । एवं क्रीतस्वयंदत्तकृत्रिमेष्वपि योजनीयम्; समानन्यायत्वात् ॥ १३० ॥ भाषा - अक्षता ( पहले पुरुष सम्पर्क से वञ्चित ) या क्षता ( जो पहले यौन संबन्ध का अनुभव कर चुकी हो ) सवर्णा पुनर्भू ( पुनः विवाहिता ) का पुत्र पौनर्भव होता है; जिस पुत्र को माता और पिता किसी को दे देवे वह दत्तकपुत्र कहलाता है ॥ १३० ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ १३१ ॥ क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् , तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् ( ९।१७४ )—'क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥' इति, तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं, न जात्या; 'सजातीयेष्वयं प्रोक्तस्तनयेषु' ( व्य० १३३ ) इत्युपसंहारात् । कृत्रिमः स्यात्स्वयंकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादि- ३प्रलोभनैः पुत्रीकृतो मातापितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्त४स्त्व- १. निषेधः । २. गर्भे भिन्नः । ३. प्रलोमेन । ४. स्वयंदत्त उपनतः ।

व्यवहाराध्यायः २८७ मुपगतः । सहोढजस्तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ १३१ ॥ भाषा-माता-पिता द्वारा (या उनमें से किसी एक द्वारा) धन लेकर दूसरे के हाथ बेचा गया पुत्र क्रीतपुत्र होता है और स्वयं बनाया गया पुत्र कृत्रिम कहलाता है। (माता पिता से व्यक्त या हीन होकर) स्वयं को पुत्र के रूप में अर्पित करने वाला दत्तात्मा और विवाह के समय जो गर्भ में रहा हो वह सहोढज पुत्र कहलाता है ॥ १३१ ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते, स ग्रहीतुः पुत्रः . सर्वत्र सवर्ण इत्येव ॥- एवं मुख्यामुख्यपुत्राननुक्रम्यैतेषां दायग्रहणे क्रममाह- पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥ १३२ ॥ एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदोंऽशहरो धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुरपवादमाह (९।१३४ ) - 'पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥' इति । तथा अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थांशभागित्वमुक्तं वसिष्ठेन । 'तस्मिं- श्चेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तकः' ( १५।९ ) इति । 'दत्तक'ग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम् ; पुत्रीकरणाविशेषात् । तथा च कात्यायनः- 'उत्पन्ने त्वौरसे पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ॥' इति । सवर्णा दत्तकक्षेत्रजादयस्ते सत्यौरसे चतुर्थां- शहराः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास्ते त्वौरसे सति न चतु- र्थांशहराः, किंतु ग्रासाच्छादनभाजनाः । यदपि विष्णुवचनम्- 'अप्रशस्तास्तु कानीनगूढोत्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिनः ॥' इति, तदप्यौरसे सति चतुर्थांशनिषेधपरमेव; औरसाद्यभावे तु कानीनादी- नामपि सकलपिण्डधनग्रहणमस्त्येव । 'पूर्वाभावे परः परः' इति वचनात् ॥ यदपि मनुवचनम् (९।१६३) - 'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषा- णामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम् ॥' इति, तदपि दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव (मनुः९।१६४) - १. चतुर्थांश ।

२८८ याज्ञवल्क्यस्मृतिः 'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥' इति प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्ठमंशम् , एकतरसद्भावे पञ्चममिति विवेक्तव्यम् ॥ यदपि मनुना पुत्राणां षट्कद्वयमुपन्यस्य पूर्वषट्कस्य दायादबान्ध- वत्वमुक्तम् , उत्तरषट्कस्यादायादबान्धवत्वमुक्तम् ( मनुः ९।१५९।१६० )— 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायाद- बान्धवाः ॥' इति, तदपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तरा- भावे पूर्वषट्कस्य तद्रिक्थहरत्वम् , उत्तरषट्कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि सममेवेति व्याख्येयम् ॥ ( मनुः ९।१४२ )—'गोत्ररिक्थे जनयितुर्न भजेत्कृत्रिमः सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥' इत्यत्र 'दत्रिम'ग्रहणस्य पुत्र- प्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम- विशिष्टम् । ( मनुः ९।१८५ )—'न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।' इत्यौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु ( मनुः ९।१३६ )—'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।' इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । 'दायाद'शब्दस्य 'दायादानपि दापयेत्' इत्यादौ पुत्रव्यतिरिक्तरिक्थभागिविषयत्वेन प्रसिद्धत्वाच्च । वासिष्ठादिषु वर्ग- द्वयेऽपि कस्यचिद्व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये तु 'पौत्रिके यस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात्स्थितमेतत्पूर्वपूर्वाभावे परः परोऽंशभागिति ॥ यत्तु ( ९।१८२ )—'भ्रातॄणामेकजातानामेकश्चेत्पुत्र- वान्भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥' इति, तदपि भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरणनिषेधार्थम् , न पुनः पुत्रत्वप्रतिपादनाय । 'तत्सुता गोत्रजा बन्धुः-’ ( व्य० १३५ ) इत्यनेन विरोधात् ॥ १३२ ॥ भाषा—माता पिता द्वारा छोड़ा जाने पर जो पुत्र ग्रहण किया जाता है वह अपविद्ध पुत्र होता है । इन पूतों में पहले-पहले के अभाव में बादवाले पिण्ड, दान एवं सम्पत्ति के अंशग्रहण के अधिकारी होते हैं ॥ १३२ ॥ इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह— सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । समानजातीयेष्वेव पुत्रेषु अयं 'पूर्वाभावे परः पर' इत्युक्तो विधिः, न भिन्न- जातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण, १. सर्वांस्तांस्ते ।

अथव्यवहाराध्यायः २८६ न स्वरूपेण; तेषां वर्णजातित्वलक्षणस्याभावस्योक्तत्वात् । तथानुलोमजानां मूर्धाव- सिकादीनामौरसेष्वन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते। यथाह मनुः (९।१५४) —'यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रा- पुत्राय धर्मतः ॥' इति । यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्यपुत्रोऽविद्यमान- द्विजातिपुत्रो वा स्यात्तस्मिन्मृते क्षेत्रजादिर्वाऽन्यो वा सपिण्डः शूद्रापुत्राय तद्ध- नाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णपुत्राभावे सकलधनग्रहणं गम्यते ॥ अधुना शूद्रधनविभागे विशेषमाह— जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् ॥ १३३ ॥ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥ १३४ ॥ शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते । पितुरूध्वं तु यदि परिणीतापुत्राः सन्ति तदा ते भ्रातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः, स्वभागादर्धं दद्युरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं धनं दासी- पुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । तत्सद्भावे त्वर्ध- भागिक एव दासीपुत्रः । अत्र च 'शूद्र'ग्रहणाद् द्विजातिना दास्यामुत्पन्नः पितुरिच्छयाऽप्यंशं न लभते नाप्यर्धं, दुहितर एव कृत्स्नम्⁵ । किन्त्वनुकूल- श्चेज्जीवनमात्रं लभते ॥ १३३-१३४ ॥ भाषा—मैंने समान जाति के पुत्रों के विषय में यह पूर्व और परभाव का उल्लेख किया है। शूद्र द्वारा दासी से भी उत्पन्न पुत्र पिता की इच्छा से अंशग्राही होता है। पिता की मृत्यु के बाद भाई ( = परिणीता पत्नी के पुत्र ) उस दासीपुत्र को आधा भाग प्रदान करें। भाई (परिणीतापुत्र) न हों और विवाहिता पुत्रियाँ एवं उनके पुत्र न हों तो दासीपुत्र सम्पूर्ण धन ले लेवे ॥ १३३-१३४ ॥ मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम्, तेषामभावे सर्वेषां दायादक्रम उच्यते— पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा ⁶बन्धुशिष्यसब्रह्मचारिणः ॥ १३५ ॥ १. स्वरूपद्वारेण । २. प्यसत्पुत्रोऽपि वा भवेत् । ३. विभागेऽपि । ४. धनं गृह्णीयात् । ५. कृत्स्नं धनं, दूरत एव । ६. बन्धुशिष्याः सब्रह्म ।

२६० याज्ञवल्क्यस्मृतिः एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ॥ पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः, तस्यापुत्रस्य स्वर्यातस्य पर- लोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु१ अनुलो- मजेषु सूतादिषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिष्वयं दायग्रहणविधिर्दायग्रह- णक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता 'पत्युर्नो यज्ञसंयोगे' (अ० ४।१।३३) इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्व्यश्चेत्सजातीया विजातीयाश्च तदा यथांशं विभज्य धनं गृह्णन्ति३ । वृद्ध- मनुरपि पत्न्याः समग्रधनसंबन्धं वक्ति—'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति । वृद्धविष्णुरपि— 'अपुत्रधनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे पितृगामि, तदभावे भ्रातृगामि' इति । कात्यायनोऽपि—'पत्नी पत्युर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । तथा 'अपुत्रै५स्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति । बृह- स्पतिरपि (बृह. २५।४८)—'कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' एतद्विरुद्धानीव६ वाक्यानि लक्ष्यन्ते (ना० १३।- २५-२६) 'भ्रातृणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा । विभजेरन्धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु ॥' इति पत्नीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९।१८५)—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितुर्भ्रातुर्वेति दर्शितम् । तथा (मनुः ९।- २१७)—'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितु- र्माता हरेद्धनम् ॥' इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्खनापि— 'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति भ्रातॄणां पित्रोर्ज्येष्ठायाश्च पत्न्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायने- नापि—'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥' इत्येवमादीनां विरुद्धाथानां वाक्यानां धारेश्वरेण व्यवस्था दर्शिता—'पत्नी गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । १. दिष्वनुलोमजेषु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं । २. भाक् विवाह । ३. गृह्णन्ति यथा । ४. धनग्रहणं । ५. स्यार्यकुलजा । ६. विरुद्धानि च वाक्यानीह ।

व्यवहाराध्यायः २६१

सा च यदि नियोगाथिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनग्रहणं न स्वतन्त्रायां इति । 'पिता हरेदपुत्रस्य' ( मनुः ९।१८५ ) इत्यादिवचनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यद् व्यवस्थाकारणमस्ति इति गौतमवचनाच्च (२९।५६) 'पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् स्त्री वाऽनपत्यस्य बीजं लिप्सेत' इति । अस्यार्थः - पिण्डगोत्रर्षिसम्बन्धा अनपत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुरपि (९।१४६) — धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव वा । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥' इति । अनेनैतद्दर्श- यति विभक्तधनेऽपि भ्रातुर्युपरतेऽपत्यद्वारेणैव पत्न्या धनसंबन्धो नान्यथेति । तथाऽविभक्तधनेऽपि ( मनुः ९।१२० ) — 'कनीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादये- द्यदि । समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥' इति । तथा वसिष्ठोऽपि ( १७।४८ ) 'रिक्थलोभान्नास्ति नियोगः' इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धनसंबन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पत्न्या भरणमात्रमेव नारदवचनात् 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' इति । योगीश्वरेणापि किल वक्ष्यते (व्य० १४२) — 'अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥' इति । अपि च, द्विजातिधनस्य यथार्थत्वात् स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्तम् । यथा च केनापि स्मृतम् — 'यज्ञार्थे द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥ यज्ञार्थं विहितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्म- जुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥' इति, — तदनुपपन्नम् ; 'पत्नी दुहितरः' (व्य० १३५) इत्यत्र नियोगस्याप्रतीतेरप्रस्तुतत्वाच्च । अपि चेदमत्र वक्तव्यम्, — पत्न्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तन्न नियोगस्यैव निमित्तत्वे अनुत्पादित- पुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति अथ तदपत्यस्यैव निमित्तत्वं, तथा सति पुत्रस्यैव धनसंबन्धात्पत्नीति नारब्धव्यम् ॥ अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् , — तद्- प्यसत् ; ( मनुः ९।१९४ ) — 'अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥' इत्यादिविरोधात् । किंच; सर्वथा पुत्राभावे 'पत्नी दुहितरः' इत्यारब्धम् । तन्न नियुक्ताया धनसंबन्धं वदता क्षेत्र- जस्यैव धनसंबन्धं उक्तो भवति । स च प्रागेवाभिहित इति 'अपुत्रप्रकरणे पत्नी' ति नारब्धव्यम् । अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वाऽनपत्यस्य बीजं लिप्सेत' ( गौ० २९।५ ) इति गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तद्-

१. संबन्धो युक्तो । १९ या०