याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 342, कुल 782 में से
संदर्भ में पढ़ें२८६ याज्ञवल्क्यस्मृतिः अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ १३० ॥ पौनर्भवस्तु पुत्रोऽक्षतायां क्षतायां वा पुनर्भ्वां सवर्णादुत्पन्नः । मात्रा भर्त्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यस्मै दीयते, स तस्य दत्तकः पुत्रः । यथाह मनुः ( ९।१६८ )—'माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥' इति । आपद्ग्रहणादनापदि न देयः; दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । 'न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' ( १५।२ ) इति वसिष्ठस्मरणात् । तथाऽनेकपु- त्रसद्भावेऽपि ज्येष्ठो न देयः । 'ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः' ( मनुः ९।१०६ )—इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश्च 'पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर्हुत्वा अदूर- बान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्' इति वसिष्ठेनोक्तः । 'अदूरबान्धवम्' इत्यत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः १ । एवं क्रीतस्वयंदत्तकृत्रिमेष्वपि योजनीयम्; समानन्यायत्वात् ॥ १३० ॥ भाषा - अक्षता ( पहले पुरुष सम्पर्क से वञ्चित ) या क्षता ( जो पहले यौन संबन्ध का अनुभव कर चुकी हो ) सवर्णा पुनर्भू ( पुनः विवाहिता ) का पुत्र पौनर्भव होता है; जिस पुत्र को माता और पिता किसी को दे देवे वह दत्तकपुत्र कहलाता है ॥ १३० ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ १३१ ॥ क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् , तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् ( ९।१७४ )—'क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥' इति, तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं, न जात्या; 'सजातीयेष्वयं प्रोक्तस्तनयेषु' ( व्य० १३३ ) इत्युपसंहारात् । कृत्रिमः स्यात्स्वयंकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादि- ३प्रलोभनैः पुत्रीकृतो मातापितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्त४स्त्व- १. निषेधः । २. गर्भे भिन्नः । ३. प्रलोमेन । ४. स्वयंदत्त उपनतः ।