याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 341, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २८५ उत्पन्न पुत्र दोनों की सम्पत्ति का अधिकारी होता है और धर्मानुसार पिण्ड- दान देने वाला होता है ॥ १२७ ॥ समानासमानजातीयानां पुत्राणां विभागक्लृप्तिरुक्ता, अधुना मुख्यगौण- पुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस्तेषां स्वरूपं तावदाह— औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ १२८ ॥ उरसो जात औरसः पुत्रः, स च धर्मपत्नीजः–सवर्णा धर्मविवाहोढा धर्मपत्नी, तस्यां जात औरसः पुत्रो मुख्यः । तत्समः पुत्रिकासुतः तत्सम औरससमः, पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः-'अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पुत्रिकैव सुतः पुत्रिकासुतः; सोऽप्यौ- रससम एव पित्रवयवानामल्पत्वात् , मात्रवयवानां बाहुल्याच्च; यथाह वसिष्ठः ( १७।१५ )—'तृतीयः पुत्रिकैव' इति । तृतीयः पुत्रः पुत्रिकैवेत्यर्थः । द्व्यामुष्या- यणस्तु जनकस्यौरसोदपकृष्टः; अन्यक्षेत्रोत्पन्नत्वात् । 'क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥ १२८ ॥ भाषा—धर्मपूर्वक विवाहिता सवर्णा पत्नी से उत्पन्न पुत्र औरस होता है पुत्रिकासुत ( पुत्री का पुत्र, नाती अथवा एकमात्र पुत्री जो पुत्र सी होती है ) उस ( औरस पुत्र ) के समान ही होता है । क्षेत्रज और क्षेत्रजात पुत्र सगोत्र या दूसरे सपिण्ड आदि द्वारा उत्पन्न होता है ॥ १२८ ॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्नं उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णात्स मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता, अथोढा तदा वोढुरेव पुत्रः । यथाह मनुः ( ९।१७२ )— 'पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासं- मुद्भवम् ॥' इति ॥ १२९ ॥ भाषा—घर में ( भिन्न जाति के पुरुष संसर्ग के कारण ) प्रच्छन्न रूप से उत्पन्न पुत्र गूढज कहलाता है और कुँवारी कन्या से उत्पन्न कानीन मातामह अर्थात् नाना का पुत्र होता है ॥ १२९ ॥ १. स्यौरसान्निकृष्टो ।