याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 348, कुल 782 में से
संदर्भ में पढ़ें२६२ याज्ञवल्क्यस्मृतिः प्यसत् ,-नहि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमर्थो- ऽस्मात्प्रतीयते । किंतु 'अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन्स्त्री वा सो^१ त्री बीजं वा लिप्सेत संयता वा भवेत्'इति तस्या धर्मान्तरोपदेशः; 'वा'शब्दस्य पक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपि च संयताया एव धनग्रहणं युक्तं, न नियुक्तायाः स्मृतिलोकनिन्दितायाः । 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति संयताया एव धन- ग्रहणमुक्तम् ॥ तथा नियोगश्च निन्दितो मनुना (९।६४)—'नान्यस्मिन्विधवा नारी नियो- क्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥'इत्यादिना यत्तु वसिष्ठवचनम् ( १७।६५ ) 'रिक्थलोभान्नास्ति नियोगः' इति, तदविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थं नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारदवचनम् (१३।२६)—'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' इति, तदपि 'संसृष्टिनां तु यो भागस्तेषामेव स इष्यते' इति ^२संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनपत्यानां भरणमात्रप्रतिपादन- परम् । नच 'भ्रातृणामप्रजाः प्रेयात्' (ना० १३।२४) इत्येतस्य संसृष्टिविषयत्वे 'संसृष्टानां^२ तु यो भाग' ( ना० १३।२४ ) इत्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तविवरणेन स्त्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि 'अपुत्रा योषितश्चैषाम्' (व्य० १४०) इत्यादिवचनं, तत् क्लीबादिस्त्रीवि- षयमिति ^३वक्ष्यते । यत्तु 'द्विजातिधनस्य यज्ञार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धन- ग्रहणमयुक्त'मिति,-तदसत् ; सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वाद्दानहोमादीनामपि धर्मत्वात्तदर्थत्वमविरुद्धमिति मतम् । एवं तर्ह्यर्थकामयोर्धनसाध्ययोरसिद्धिरेव स्यात् । तथा सति 'धर्मार्थका- मान्स्वे काले यथाशक्ति न हापयेत्' (आ० ११५) । तथा 'न पूर्वाह्णमध्यन्दिनापरा- ह्णानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः' (गौ० ९।२४) । तथा 'न तथैतानि शक्यन्ते संनियन्तुमसेवया' ( मनुः २।९६ ) इत्यादिद्याज्ञवल्क्यगौतममनुवचन- विरोधः । अपि च धनस्य यज्ञार्थत्वे 'हिरण्यं धार्यम्' इति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्तं तत्प्रत्युद्धतं स्यात् । किंच यज्ञशब्दस्य धर्मो- पलक्षणपरत्वे स्त्रीणामपि पूर्तधर्माधिकाराद्धनग्रहणंयुक्ततरम् । यत्तु पारतन्त्र्यवचनं 'न स्त्री स्वातन्त्र्यमर्हति' (मनुः ९।३) इत्यादि तदस्तु पारतन्त्र्यं, धनस्वीकारे तु को विरोधः ॥ कथं तर्हि 'यज्ञार्थं द्रव्यमुत्पन्नम्' इत्यादिवचनम् ? उच्यते— 'यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियोक्तव्यं पुत्रादिभिरपी'त्येवं परं तत् ।—
१. सा बीजं वा । २. संसृष्टिनां तु । ३. वक्ष्यति ।