याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 349, कुल 782 में से
संदर्भ में पढ़ें*'यज्ञार्थं लब्धमददद्भासः काकोऽपि वा भवेत्' (आ० १२७) इति दोषश्रवणस्य पुत्रादिष्वप्यविशेषात् । यदपि कात्यायनेनोक्तम्—'अदायिकं राजगामि योषिद्भृ- त्योर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥' इति । अदायिकं दायादरहितं यद्धनं तद्राजगामि राज्ञो भवति, योषिद्भृत्योर्ध्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाद्युपयुक्तं चापरस्य परि- हृत्य राजगामि भवतीति संबन्धः । अस्यापवादं उत्तरार्धे । श्रोत्रियद्रव्यं च योषि- द्भृत्योर्ध्वदेहिकमपास्य 'श्रोत्रियायोपपादये'दिति, तदप्यवरुद्धस्त्रीविषयम्; योषिद्ग्र- हणात् । नारदवचनं च (१३।५२)—'अन्यत्र ब्राह्मणात्किंतु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥' इत्यवरुद्धस्त्रीविषयमेव । स्त्रीशब्द- ग्रहणात् । इह तु 'पत्नी' शब्दादूढायाः संयताया धनग्रहणमविरुद्धम् । तस्मा- द्विभक्तासंसृष्टिन्यपुत्रे स्वर्ग्याते पत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवति । विभागस्योक्तत्वादसंसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीकरादि- भिरुक्तं निरस्तं वेदितव्यम् । तथा ह्यौरसेषु पुत्रेषु सत्स्वपि जीवद्विभागे अजीव- द्विभागे च पत्न्याः पुत्रसमांशग्रहणमुक्तम् (व्य० ११५)—'यदि कुर्यात्समानं- शान् पत्न्यः कार्याः समांशिकाः' इति । तथा—'पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत्' इति च, तथासत्यपुत्रस्य स्वर्ग्यात्तस्य धनं पत्नी भरणादतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ 'पत्न्यः कार्याः समांशिका' (व्य० ११५) इत्यत्र 'माताऽप्यंशं समं हरेत्' (व्य० १२३) इत्यत्र च जीवनोपयुक्तमेव धनं स्त्री हर- तीति मतं;—तदसत्; 'अंश'शब्दस्य 'सम'शब्दस्य चानर्थक्यप्रसङ्गात् । स्यान्म- तम्—बहुधने जीवनोपयुक्तं धनं गृह्णाति अल्पे तु पुत्रांशसममंशं गृह्णातीति । तच्च न विधिवैषम्यप्रसङ्गात् । तथा हि 'पत्न्यः कार्याः समांशिकाः' 'माताऽप्यंशं समं हरेत्' इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरमपेक्ष्य प्रतिपादयति, अल्प- धने तु पुत्रांशसममंशं प्रतिपादयतीति । यथा चातुर्मास्येषु 'द्वयोः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या 'न वैश्वदेवे उत्तरवेदिमुपकिरन्ति' 'न शुनासीरीये' इत्युत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैक- देशिना 'न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रतिषेधः किंतुप्तार्वं वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रति- षेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणा 'उ॑पान्न वपन्ति' इति प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पाक्षिकीमुत्तरवेदिं प्रोपयति । मध्यमयोस्तु निरपेक्षमेव नित्यवदुत्तरवेदिं प्रापयति' (जै० ७।३।२३-२५) इति विधिवैषम्यं दर्शितम् ।
१. दिष्वविशेषात् । २. आदायकं । ३. ऽपवादः । श्रोत्रिय । ४. श्रीकारादिभिः । ५. तथा पत्न्यः । ६. स्त्रीधनमिति मतं । ७. तथा । ८. तूपात्त, तूपात्र । ९. प्रतिपाद्यति ।