भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 350, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 350

२६४ याज्ञवल्क्यस्मृतिः राद्धान्तेऽपि विधिवैषम्यभयात्प्रथमोत्तमयोः पर्वणोरुत्तरवेदिप्रतिषेधो नित्यानु- वादो 'द्वयोः प्रणयन्ति' इत्यस्यार्थवादपर्यालोचनया 'उपान्ते वपन्ति' इति मध्य- मयोरेव वरुणप्रघाससाकमेधपर्वणोरुत्तरवेदिं विधत्त इति दर्शितम् । यदपि मतम् ( मनुः ९।१८५ )—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात् , तथा—स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति शङ्खस्मरणाच्च अपुत्रस्य धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' ( ना० १३।२६ ) इत्यादि- वचनाच्च भरणोपयुक्तं धनं पत्नी लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्यात भरणोपयुक्तं पत्नी गृह्णाति, शेषं च भ्रातरः। यदा तु पत्नीभरण- मात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा किं पत्न्येव गृह्णात्युत भ्रात- रोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनाथं 'पत्नी दुहितर' इत्यारब्धमिति, तद- प्यन्न भगवानाचार्यो न क्षंस्यति । यतः ( मनुः ९।१८५ )—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्मरणान्नेदं क्रमपरं वचनम् , अपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पत्न्यादिगणे घटत इति व्याचचक्षे । शङ्खवचनमपि संसृष्टभ्रातृविषयमिति । अपि चाल्पविषयत्वमस्मा- द्वचनात्प्रकरणाद्वा नावगम्यते । 'धनभागुत्तरोत्तरः' ( व्य० १३६ ) इत्यस्य च 'पत्नी दुहितर' इति विषयद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वम् , पित्रादिषु तु धनमात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति । यत्तु हारीतवचनम्—विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षप- णार्थं तु दातव्यं जीवनं तदा ॥' इति,—तदपि शङ्कितव्यभिचारायाः सकल- धनग्रहणनिषेधपरम् । अस्मादेव वचनादनाशङ्कितव्यभिचारायाः सकलधन- ग्रहणं गम्यते । एतदेवाभिप्रेत्योक्तं शङ्खेन 'ज्येष्ठा वा पत्नी' इति । ज्येष्ठा गुणज्येष्ठा अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वाऽन्या कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् । तस्मादपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृ- ष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति स्थितम् । तदभावे दुहितरः । 'दुहितर' इति बहुवचनं समानजातीयानामसमान- जातीयानां च समविषमांशप्राप्त्यर्थम् । तथा च कात्यायनः—'पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति बृहस्प- तिरपि (२५।५५-५६)—'भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता । अङ्गाद- ङ्गात्संभवति पुत्रवद् दुहिता नृणाम् ॥ तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः॥'


१. हरेतां । २. अपुत्रधनं । ३. श्रवणात् । ४. धिकारमात्रप्रदर्शनपरं । ५. संसृष्टविषयं । ६. वचनादशङ्कित ।