याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 353, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः २६७ ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥' इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् ; 'अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्य- मिति स्थितिः' ( ९।१८९ ) इति मनुवचनात् । नारदेनाप्युक्तम् — 'ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन । ब्राह्मणायैव दातव्यमेनव्वी स्यान्नृपोऽन्यथा ॥' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेत् । न ब्राह्मणः । यथाऽऽह मनुः ( ९।१८९ ) — 'इतरेषां तु वर्णानां सर्वाभावे हरेन्नृप' इति ॥ १३५-१३६ ॥ भाषा—जिसके पूर्वोक्त बारह प्रकार के पुत्रों में से किसी भी प्रकार का पुत्र न होवे उस पुत्रहीन के मर जाने पर पत्नी, पुत्रियाँ, माता-पिता, भाई, भाइयों के पुत्र, गोत्र में उत्पन्न व्यक्ति, बन्धु, शिष्य और ब्रह्मचारी में पहले-पहले के न होने पर उसके बाद वाले धन के अधिकारी होते हैं । यह विधि सभी वर्णों के लिये है ॥ १३५-१३६ ॥ पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्न्यादय इत्युक्तं, इदानीं तदुभयाप- वादमाह — वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ १३७ ॥ वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणाचार्यः, सच्छिष्यः, धर्मभ्रात्रेकतीर्थी च, रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः । उपकुर्वा- णस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यो गृह्णातीत्युच्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्र- श्रवणधारणतदर्थानुष्ठानक्षमः; दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासावेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनामभावे पुत्रा- दिषु सत्स्वप्येकतीर्थ्येव गृह्णाति । ननु 'अनंशास्त्वाश्रमान्तरगताः' इति वसिष्ठ- स्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः ? नच नैष्ठि- कस्य स्वार्जितधनसंबंधो युक्तः; प्रतिग्रहादिनिषेधात् । 'अनिचयो भिक्षुः' ( ३।७ ) इति गौतमस्मरणात् । भिक्षोरपि न स्वार्जितधनसंबंधसंभवः । उच्यते—वान- प्रस्थस्य तावत्—'अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा। अर्थस्य निचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥' ( प्राय० ४७) इति वचनाद्धनसंबंधो- ऽस्त्येव । यतेरपि—'कौपीनाच्छादनार्थं वा वासोऽपि बिभृयात्तथा । योगसंभार- १. संबन्धः प्रतिग्रहादिः । २. धनसंभवः । ३. हि वासोऽपि बिभृयात्तथा ।