याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 352, कुल 782 में से
संदर्भ में पढ़ें२६६ याज्ञवल्क्यस्मृतिः सोदराणामभावे भिन्नोदरा धनभाजः, भ्रातृणामप्यभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः, भ्रात्रभावे भ्रातृपुत्रा- णामधिकारवचनात् ; यदा स्वपुत्रे भ्रातरि स्वर्यात तद्भ्रातृणामविशेषेण धन- संबन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्भ्राता मृतस्तदा तत्पुत्राणां पितृ- तोऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे 'पितृतो भागकल्पना' (व्य० १२०) इति युक्तम् ॥ भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । 'मातर्यपि च वृत्तायां पितुर्माता धनं हरेत्' (मनुः ९।२१७) —इति मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात , 'पितुर्माता धनं हरेत्' इत्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे तत्सुतान- न्तरं पितामही गृह्णातीत्यविरोधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः; भिन्नगोत्राणां सपिण्डानां 'बन्धु'शब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येवमासप्तमात्स- मानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समानोदकानां धन- संबन्धः ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाऽऽह बृहन्मनुः—'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति । गोत्रजाभावे बन्धवो धनभाजः । बन्धवश्च त्रिविधाः—आत्मबन्धवः, पितृ- बन्धवः, मातृबन्धवश्चेति । यथोक्तम् —'आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृ- ष्वसुः पुत्रा मातृमातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥' इति ॥ तत्र चान्तरङ्गत्वात्प्रथममात्मबन्धवो धनभाजस्तदभावे पितृबन्धवस्तद- भावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्यः, तदभावे शिष्यः—'पुत्राभावे यः प्रत्यासन्नः सपिण्डः, तदभावे आचार्यः, आचार्याभावे- ऽन्तेवासी' इत्यापस्तम्बस्मरणात् ॥ शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्मादाचार्यादुपनयनाद्यध्यन- तदर्थज्ञानप्राप्तिः, स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णी- यात् 'श्रोत्रिया ब्राह्मणास्त्वनपत्यस्य रिक्थं भजेरन्' (२५।४१) इति गौतमस्मर- णात् । तदभावे ब्राह्मणमात्रम् । यथाऽऽह मनुः (९।१८६)—'सर्वेषामप्यभावे तु