भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

२६६ याज्ञवल्क्यस्मृतिः सोदराणामभावे भिन्नोदरा धनभाजः, भ्रातृणामप्यभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः, भ्रात्रभावे भ्रातृपुत्रा- णामधिकारवचनात् ; यदा स्वपुत्रे भ्रातरि स्वर्यात तद्भ्रातृणामविशेषेण धन- संबन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्भ्राता मृतस्तदा तत्पुत्राणां पितृ- तोऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे 'पितृतो भागकल्पना' (व्य० १२०) इति युक्तम् ॥ भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । 'मातर्यपि च वृत्तायां पितुर्माता धनं हरेत्' (मनुः ९।२१७) —इति मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात , 'पितुर्माता धनं हरेत्' इत्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे तत्सुतान- न्तरं पितामही गृह्णातीत्यविरोधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः; भिन्नगोत्राणां सपिण्डानां 'बन्धु'शब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येवमासप्तमात्स- मानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समानोदकानां धन- संबन्धः ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाऽऽह बृहन्मनुः—'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति । गोत्रजाभावे बन्धवो धनभाजः । बन्धवश्च त्रिविधाः—आत्मबन्धवः, पितृ- बन्धवः, मातृबन्धवश्चेति । यथोक्तम् —'आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृ- ष्वसुः पुत्रा मातृमातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥' इति ॥ तत्र चान्तरङ्गत्वात्प्रथममात्मबन्धवो धनभाजस्तदभावे पितृबन्धवस्तद- भावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्यः, तदभावे शिष्यः—'पुत्राभावे यः प्रत्यासन्नः सपिण्डः, तदभावे आचार्यः, आचार्याभावे- ऽन्तेवासी' इत्यापस्तम्बस्मरणात् ॥ शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्मादाचार्यादुपनयनाद्यध्यन- तदर्थज्ञानप्राप्तिः, स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णी- यात् 'श्रोत्रिया ब्राह्मणास्त्वनपत्यस्य रिक्थं भजेरन्' (२५।४१) इति गौतमस्मर- णात् । तदभावे ब्राह्मणमात्रम् । यथाऽऽह मनुः (९।१८६)—'सर्वेषामप्यभावे तु

व्यवहाराध्यायः २६७ ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥' इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् ; 'अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्य- मिति स्थितिः' ( ९।१८९ ) इति मनुवचनात् । नारदेनाप्युक्तम् — 'ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन । ब्राह्मणायैव दातव्यमेनव्वी स्यान्नृपोऽन्यथा ॥' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेत् । न ब्राह्मणः । यथाऽऽह मनुः ( ९।१८९ ) — 'इतरेषां तु वर्णानां सर्वाभावे हरेन्नृप' इति ॥ १३५-१३६ ॥ भाषा—जिसके पूर्वोक्त बारह प्रकार के पुत्रों में से किसी भी प्रकार का पुत्र न होवे उस पुत्रहीन के मर जाने पर पत्नी, पुत्रियाँ, माता-पिता, भाई, भाइयों के पुत्र, गोत्र में उत्पन्न व्यक्ति, बन्धु, शिष्य और ब्रह्मचारी में पहले-पहले के न होने पर उसके बाद वाले धन के अधिकारी होते हैं । यह विधि सभी वर्णों के लिये है ॥ १३५-१३६ ॥ पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्न्यादय इत्युक्तं, इदानीं तदुभयाप- वादमाह — वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ १३७ ॥ वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणाचार्यः, सच्छिष्यः, धर्मभ्रात्रेकतीर्थी च, रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः । उपकुर्वा- णस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यो गृह्णातीत्युच्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्र- श्रवणधारणतदर्थानुष्ठानक्षमः; दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासावेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनामभावे पुत्रा- दिषु सत्स्वप्येकतीर्थ्येव गृह्णाति । ननु 'अनंशास्त्वाश्रमान्तरगताः' इति वसिष्ठ- स्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः ? नच नैष्ठि- कस्य स्वार्जितधनसंबंधो युक्तः; प्रतिग्रहादिनिषेधात् । 'अनिचयो भिक्षुः' ( ३।७ ) इति गौतमस्मरणात् । भिक्षोरपि न स्वार्जितधनसंबंधसंभवः । उच्यते—वान- प्रस्थस्य तावत्—'अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा। अर्थस्य निचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥' ( प्राय० ४७) इति वचनाद्धनसंबंधो- ऽस्त्येव । यतेरपि—'कौपीनाच्छादनार्थं वा वासोऽपि बिभृयात्तथा । योगसंभार- १. संबन्धः प्रतिग्रहादिः । २. धनसंभवः । ३. हि वासोऽपि बिभृयात्तथा ।

२१८ याज्ञवल्क्यस्मृतिः भेदांश्च गृह्णीयात्पादुके तथा ॥ इत्यादिवचनाद्वस्त्रपुस्तक संबन्धोऽस्त्येव; नैष्ठि- कस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ॥ १३७॥ भाषा—वानप्रस्थ, यति और ब्रह्मचारी की सम्पत्ति का अधिकारी क्रमशः धर्मभ्राता और एकतीर्थी (उसी आश्रम में निवास करने वाला धर्म- भ्राता), सच्छिष्य (अध्यात्मशास्त्र में निपुण शिष्य) और आचार्य होते हैं ॥१३७॥ इदानीं स्वर्गयातस्य पुत्रस्य पत्न्यादयो धनभाज इत्युक्तस्यापवादमाह— संसृष्टिनस्तु संसृष्टी— विभक्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी; संसृष्टत्वं च न येन केनापि, किंतु पित्रा भ्रात्रा पितृव्येण वा; यथाऽऽह बृहस्पतिः (२५।७२)— 'विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाथवा प्रीत्या स तत्सं- सृष्ट उच्यते ॥' इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अवि- ज्ञातगर्भायां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टये- वापराहरेद् गृह्णीयात् , न पत्न्यादिः ॥ 'संसृष्टिनस्तु संसृष्टी' इत्यस्यापवादमाह— —सोदरस्य तुं सोदरः । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ १३८ ॥ संसृष्टिनः संसृष्टीत्यनुवर्तते । अतश्च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्टी अनुजातस्य सुतस्य दद्यात् ; तदभावे अपहरेदिति^३ पूर्ववत् संबन्धः । एवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गृह्णाति न भिन्नोदरः संसृष्टद्यपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥ भाषा—विभाजन के बाद पुनः एक साथ धन मिलाकर रहने वाले संसृष्टी कहलाते हैं संसृष्टी का धन संसृष्टी लेता है; सोदर (सगे) भाई का धन उसके मरने पर सोदर भाई को ही मिलता है । सोदर संसृष्टी की मृत्यु के उपरांत उसका पुत्र जन्म ले तो उसे उसका अंश दे, यदि कोई पुत्र न हो तो उस धन को ले लेवे ॥ १३८ ॥ इदानीं संसृष्टिन्यपुत्रे स्वर्ग्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः सद्भावे, कस्य धनग्रहणमिति विवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाह— अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्ट्यपि चाऽऽदद्यात्संसृष्टो नान्यमातृजः ॥ १३९ ॥

१. च सोदरः । २. संसृष्टिनो धनं...संसृष्ट्यनुजातस्य । ३. दिति संबन्धः । ४. भिन्नोदरस्यासंसृष्टिनः सोदरस्य च । ५. वा दद्यात् । चाऽऽद्यात् । ६. नान्यमातृकः ।

अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् , न पुनरन्योदर्यो धनं हरेद- संसृष्टी । अनेनान्वयव्यतिरेकाभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्तं भवति । असंसृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्चासंसृष्ट्यपि संसृष्टिनो धन- माददीत । कोऽसावित्यत आह—संसृष्ट इति । संसृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणमुक्तं, 'संसृष्ट' इत्युत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्यर्थः । नान्य- मातृजः । अत्र 'एव' शब्दाध्याहारेण व्याख्यानं कार्यम् , संसृष्टयप्यन्यमा- तृज एव संसृष्टिनो धनं नाददीतेति एवं चासंसृष्टयपि वाऽऽदद्यादित्यपिशब्द- श्रवणात् 'संसृष्टो नान्यमातृज एव' इत्यवधारणनिषेधोऽत्रासंसृष्टसोदरस्य संसृष्टिभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यमित्युक्तं भवति । द्वयोरपि धनग्रहण- कारणस्यैकैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना ( ९।२१० )—'विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि' इति संसृष्टिविभागं प्रक्रम्य 'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥ सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ (९।२११।२१२) इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो मध्यमो वांशप्रदानतोंऽशप्रदाने । सार्वविभक्तिकस्तसिः । विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव गृह्णीयुुरित्यर्थः । तस्योद्धृतस्य विनियोगमाह—सोदर्या विभजेयुस्तमिति । तमुद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूय समं न न्यूनाधिकभावेन; ये च भ्रातरो भिन्नोदराः संसृष्टाः, ते च सनाभयो भगिन्यँश्च समं विभजेयुः । समं विभज्य गृह्णीयुुरिति तस्यार्थः ॥ १३९ ॥

भाषा—यदि सौतेला भाई संसृष्टी हो तो धन ले यदि सौतेला भाई संसृष्टी न हो तो वह धन न लेवे । किन्तु एक ही माता से उत्पन्न सगा भाई असंसृष्ट भी हो तो धन पाता है । यदि सौतेला भाई संसृष्ट रहता हो तो वह अकेले सब धन न ले, (मृत व्यक्ति के) सगे भाइयों में भी उसका विभाग करे ॥ १३९ ॥

१. मुक्तं । असंसृष्टी । २. निषेधादसंसृष्ट । ३. संसृष्टिनो भिन्नो- दरस्य च । ४. संसृष्टाः सहजीवन्त । ५. सममन्यूनाधिक । ६. भगिन्यश्च विभजेयुः ।

३०० याज्ञवल्क्यस्मृतिः पुत्रपत्न्यादिसंसृष्टिनां यद्दायग्रहणमुक्तं, तस्यापवादमाह— क्लीबोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः ॥ १४० ॥ क्लीबस्तृतीया प्रकृतिः । पतितो ब्रह्महादिः, तज्जः पतितोत्पन्नः, पङ्गुः पादविकलः, उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैरुन्मा- दैरभिभूतः, जडो विकलान्तःकरणः, हिताहितावधारणाऽक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः, अचिकित्स्यरोगोऽप्रतिसमाधेययक्ष्मदिरोगग्रस्तः, 'आद्य'शब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाऽऽह वसिष्ठः ( १७।५२ )—'अनंशास्त्वाश्रमान्तरगताः' इति । नारदोऽपि ( १३।२१ )—'पितृद्विट् पतितः षण्ढो यश्च स्यादौपपातिकः । औरसा अपि नैतेऽशं लभेरन् क्षेत्रजाः कुतः ॥' इति । मनुरपि ( ९।२०१)—'अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा । उन्मत्तजडमूंकाश्च ये च केचिन्निन्द्रियाः ॥' इति । निरिन्द्रियो निर्गतमिन्द्रियं यस्माद् व्याध्यादिना स निरिन्द्रियः । एते क्लीबादयोऽनंशाः रिक्थभाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः । 'सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥' ( ९।२०२ )—इति मनुस्मरणात् । अत्यन्तं यावज्जीवमित्यर्थः । एतेषां विभागात्प्रागेव दोषप्राप्तावनं- शत्वमुपपन्नं न पुनर्विभक्तस्य । विभागोत्तरकालमप्यौषधादिना दोषनिर्हरणे भागप्राप्तिरस्त्येव ।—'विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ( व्य० १२२ ) इत्यस्य समानन्यायत्वात् । पतितादिषु तु पुंलिङ्गत्वमविवक्षितम् । अतश्च पत्नीदुहितृमात्रादीनामप्युक्तदोषैर्दुष्टानामनंशित्वं वेदितव्यम् ॥ १०४ ॥ भाषा—नपुंसक, पतित, पतित का पुत्र, पङ्गु, पागल, जड़, अन्धा, असाध्य रोग से ग्रस्त ( औरस भाइयों को भी ) अंश न देकर केवल उनका भरण-पोषण करना चाहिए ॥ १४० ॥ क्लीबादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वे प्राप्ते इदमाह— औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः । एतेषां क्लीबादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिक्ले- ब्यादिदोषरहिता भागहारिणोऽशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्यन्येषामौरसा अपि । 'औरस-क्षेत्रज'योर्ग्रहणंमितरपुत्रव्युदासार्थम् ॥ १. भर्तव्यास्तु निरंशकाः । २. संनिपातग्रहा । ३. यक्ष्मादिरोग । ४. स्यादुपयात्रितः । ५. दोषाणामनंशित्वं ।

व्यवहाराध्यायः ३०१ क्लीबादिदुहितॄणां विशेषमाह— सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥ १४१ ॥ एषां क्लीबादीनां सुता दुहितरो यावद्विवाहसंस्कृता भवन्ति, तावद्भ- रणीयाः 'च'शब्दात्संस्कार्याश्च ॥ १४१ ॥ भाषा—इन ( नपुंसक आदि ) में यदि औरस या क्षेत्रज पुत्र निर्दोष होते हैं तो अंशग्राही होते हैं । इन नपुंसक आदि पुत्रों का उस समय तक भरण-पोषण करना चाहिए जब तक उनके पुत्रियों का विवाह न हो जाय ॥ १४१ ॥ क्लीबादिपत्नीनां विशेषमाह— अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ १४२ ॥ एषां क्लीबादीनामपुत्राः पत्न्यः साधुवृत्तयः सदाचाराश्चेद्भर्तव्या भरणीयाः; व्यभिचारिण्यस्तु निर्वास्याः । प्रतिकूलास्तथैव च निर्वास्या भवन्ति, भरणीया- श्चाव्यभिचारिण्यश्चेत् । न पुनः प्रातिकूल्यमात्रेण भरणमपि न कर्तव्यम् ॥१४२॥ भाषा—इनकी पुत्रहीना पत्नियाँ यदि सदाचारिणी हों तो उनका भरण करना चाहिए, यदि व्यभिचारिणी और प्रतिकूल आचरण करने वाली होंवे तो उन्हें निर्वासित कर देना चाहिए ॥ १४२ ॥ ‘विभजेरन्सुताः पित्रोः’ ( व्य० ११७ ) इत्यत्र स्त्रीपुंधनविभागं संक्षेपेणा- भिधाय पुरुषधनविभागो विस्तरेणाभिहितः, इदानीं स्त्रीधनविभागं विस्तरेणाभि- धास्यंस्तत्स्वरूपं तावदाह— पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम् । आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ १४३ ॥ पित्रा मात्रा पत्या भ्रात्रा च यद्दत्तं, यच्च विवाहकालेऽग्नावधिकृत्य मातुलादिभिर्दत्तम् , आधिवेदनिकं अधिवेदनानिमित्तं ‘अधिविन्नस्त्रियै दद्यात्’ ( व्य० १४८ ) इति वक्ष्यमाणं । ‘आद्य’शब्देन रिक्थक्रयसंविभागपरिग्रहा- धिगमप्राप्तमेतत्स्त्रीधनं मन्वादिभिरुक्तम् । ‘स्त्रीधन’शब्दश्च यौगिको न पारि- भाषिकः । योगसंभवे परिभाषाया अयुक्तत्वात् । यत्पुनर्मनुनोक्तम् ( ९।१९४ ) —‘अध्यग्न्यध्यावहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥’ इति स्त्रीधनस्य षड्विधत्वं, तन्न्यूनसंख्याव्यवच्छेदार्थं नाधि- कसंख्याव्यवच्छेदाय ॥ अध्यग्न्यादिस्वरूपं च कात्यायनेनाभिहितम्—‘विवाह- काले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्ति- १. वेदनिकं चैव ।

३०२ याज्ञवल्क्यस्मृतिः तम् ॥ यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावह्निकं नाम स्त्रीधनं तदुदाहृतम् ॥ प्रीत्या दत्तं तु यत्किंचिच्छ्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । ऊढया कन्यया वाऽपि पत्युः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥' इति ॥ १४३ ॥ भाषा—पिता, माता, पति और भाई द्वारा दिया गया धन, विवाह में अग्नि के निकट मिला हुआ धन, आधिवेदनिक (दूसरा विवाह करते समय पति द्वारा पहली स्त्री के सन्तोष के लिये प्रदत्त) धन इत्यादि स्त्रीधन कहे गये हैं ॥ १४३ ॥ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च । किंच बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तम्, शुल्कं यद् गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनादनु पश्चादाहितं दत्तम् । उक्तं च कात्यायनेन—'विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तु तद्द्रव्यं लब्धं पितृकुलात्तथा ॥' इति स्त्रीधनं परिकीर्तितमिति गतेन संबन्धः ॥ एवं स्त्रीधनमुक्तं, तद्विभागमाह— अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः ॥ १४४ ॥ तत्पूर्वोक्तं स्त्रीधनमप्रजसि अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां बान्धवा भर्तृादयो वक्ष्यमाणा गृह्णन्ति ॥ १४४ ॥ भाषा—स्त्री के मातृपक्ष एवं पितृपक्ष के बन्धुओं द्वारा दिया गया धन, शुल्क (जो धन लेकर कन्या दी जाय), और अन्वाधेयक (विवाह के बाद पतिकुल या पितृकुल से प्राप्त) धन भी स्त्रीधन कहलाता है। स्त्री के बिना सन्तान (पुत्री, नाती, नाती के पुत्र आदि) मर जाने पर पति आदि बान्धव स्त्रीधन ग्रहण करते हैं ॥ १४४ ॥ सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः। इदानीं विवाहभेदेना- धिकारिभेदमाह— अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि । दुहितृणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ १४५ ॥ अप्रजसः स्त्रियाः पूर्वोक्तायाः ब्राह्मादैवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर्भवति । तदभावे तत्प्र- त्यासन्नानां सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु


१. भर्तुः सकाशात् । २. अप्रजायाममतीतायां । ३. अप्रजस्त्रियाः ।

व्यवहाराध्यायः ३०३ तदप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृ- गामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेद् दुहितॄणां तद्धनं भवति । अत्र ‘दुहितृ’शब्देन दुहितृदुहितर उच्यन्ते । साक्षाद् दुहितॄणां ‘मातुर्दुहितरः शेषम्’ ( व्य० ११७ ) इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि वृत्तायां प्रथमं दुहितरो गृह्णन्ति; तत्र चोढाऽनूढासमवायेऽनूढैव गृह्णाति; तदभावे च परिणीता; तत्रापि प्रतिष्ठिताऽप्रतिष्ठितसमवायेऽप्रतिष्ठिता गृह्णाति, तदभावे प्रतिष्ठिता; यथाह गौतमः (२९।६)—'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति । तत्र 'च'शब्दात्प्रतिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच्च शुल्कव्यतिरकेण । शुल्कं तु सोदर्याणामेव; ‘भगिनीशुल्कं सोदर्याणामूर्ध्वं मातुः’ (२९।६) इति गौतमवचनात् । सर्वासां दुहितॄणामभावे दुहितृदुहितरो गृह्णन्ति; ‘दुहितॄणां प्रसूता चेत्’ इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विष- माणां समवाये मातृद्वारेण भागकल्पना; ‘प्रतिमातृ वा स्वैवर्गेण भागविशेषः’ (२९।५) इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचि- देव दातव्यम्; यथाह मनुः ( ९।१९३ )—'यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । मातामह्या धनात्किंचित्प्रदेयं प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणाम- प्यभावे दौहित्रा धनहारिणः; यथाह नारदः—( १३।२ ) ‘मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः’ इति । तच्छब्देन संनिहितदुहितृपरामर्शात् ॥ दौहित्राणाम- भावे पुत्रा गृह्णन्ति । ‘ताभ्य ऋतेऽन्वय’ ( व्य० ११७ ) इत्युक्तत्वात् । मनुरपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति ( ९।१९२ )—'जनन्यां संस्थि- तायां तु सर्वे सहोदराः । समं भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥' इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन्, सनाभयो भगिन्यश्च समं भजेरन्निति संबन्धः; न पुनः सहोदरा भगिन्यश्च संभूय भजेरन्निति इतरेतरयोगस्य द्वन्द्वैक- शेषाभावादप्रतीतेः । विभागकर्तृत्वान्वयेनापि 'च'शब्दोपपत्तेः; यथा देवदत्तः कृषिं कुर्याद्यज्ञदत्तश्चेति । 'सम'ग्रहणमुद्धारविभागनिवृत्त्यर्थम् । 'सोदर'ग्रहणं भिन्नोदर- निवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता गृह्णाति, तदभावे तदपत्यम्; यथाऽऽह मनुः ( ९।१९८ )—'स्त्रियास्तु यद्भवे- द्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥' इति । ‘ब्राह्मणी’ग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणामभावे पौत्राः पितामहीधनहारिणः । 'रिक्थभाज ऋणं प्रति- कुर्युः' ( २९।७ ) इति गौतमस्मरणात्, ‘पुत्रपौत्रैर्ऋणं देयम्’ (व्य० ५०) इति १. स्ववर्गे भाग, स्वस्ववर्गेण । २. कर्तृत्वेनान्वयेनापि ।

३०४ याज्ञवल्क्यस्मृतिः पौत्राणामपि १पितामहऋणापाकरणेऽधिकारात् । पौत्राणामप्यभावे पूर्वोक्ता भर्त्रा- दयो बान्धवा धनहारिणः ॥ १४५ ॥ भाषा—ब्राह्म, दैव, आर्ष और प्राजापत्य विवाह हो तो स्त्री के निःसन्तान मरने पर उसका धन पति को मिलता है । शेष विवाहों में वह धन स्त्री के पिता का हो जाता है । किन्तु इन सभी विवाहों में यदि उस स्त्री के पुत्रियाँ हों तो उसका धन उन पुत्रियों को ही मिलता है ॥ १४५ ॥ स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिदाह— दत्त्वा कन्यां हरन्दण्ड्यो व्ययं दद्याच्च सोदयम् । कन्यां वाचा दत्त्वाऽपहरन् द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतच्चापहरणकारणाभावे; सति तु कारणे ‘दत्तामपि हरेत्पूर्वाच्छ्रेयांश्रेद्वर आव- जेत्’ ( आ० ६५ ) इत्यपहारस्याभ्यनुज्ञानान्न दण्ड्यः । यच्च वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबंधिनां चोपचारार्थं धनं व्ययीकृतं, तत्सर्वं सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् ॥— अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियेत३, तदा किं कर्तव्यमित्यत आह— मृतायां ४दत्तमादद्यात् परिशोध्योभयव्ययम् ॥ १४६ ॥ यदि वाग्दत्ता मृता तदा यत्पूर्वमङ्गुलीयकादि शुल्कं५ वरेण दत्तं, तद्वर आद- दीत परिशोध्योभयव्ययम् । उभयोरात्मनः कन्यादातुश्च यो व्ययः, तं परि- शोध्य विर्णमय्यावशिष्टमाददीत । यत्तु कन्यायै मातामहादिभिर्दत्तं शिरोभूषणा- दिकं वा क्रमायातं७, तत्सहोदरा भ्रातरो गृह्णीयुः; ‘रिक्थं मृतायाः कन्याया गृह्णीयुः सोदरास्तदभावे मातुरस्तदभावे पितुः’ इति बौधायनस्मरणात् ॥ १४६ ॥ भाषा—कन्या का वाग्दान करके पुनः उसका हरण करने ( दान न करने ) वाले को उसके लिये व्यय किया गया धन वृद्धि सहित दण्ड लेकर वर को दिलावे । वाग्दत्ता कन्या के मरने पर दोनों ( पिता और वर ) के व्यय का शोध करके जो शेष बचे वह वर को देवे ॥ १४६ ॥ मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् , इदानीं जीवन्त्याः सप्रजाया अपि स्त्रिया धनग्रहणे क्वचिद्भर्तुरभ्यनुज्ञामाह— दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥ १४७ ॥ १. पितामहऋणापाकरणाधिकारात् । २. दद्यात्सोदयम् । ३. म्रियते तदा । ४. सर्वमादद्यात् । ५. शुल्कं वा वरेण । ६. विगणय्य । ७. क्रमागतं । ८. भर्त्रा, भर्त्रा न स्त्रियो ।

व्यवहाराध्यायः ३०५ दुर्भिक्षे कुटुम्बभरणार्थं, धर्मकार्ये अवश्यकर्त्तव्ये, व्याधौ च संप्रतिरोधके, बन्दिग्रहणनिग्रहादौ, द्रव्यान्तररहितः स्त्रीधनं गृह्णन्भर्ता न पुनदीतुमर्हति; प्रकारान्तरेणोपहरन्दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धनं केनापि दायादेन न ग्रहीतव्यम्; ‘जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । तान्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥’ (मनुः ८।२९) इति दण्डविधा- नात् । तथा—‘पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दा- यादा भजमानाः पतन्ति ते ॥’ ( मनुः ९।२०० ) इति दोषश्रवणाच्च ॥ १४७ ॥ भाषा—दुर्भिक्ष के समय, धर्म-कार्य में, रोग में और बन्दी होने पर लिये गये स्त्री-धन को पति स्त्री को पुनः देने का भागी नहीं होता ॥ १४७ ॥ आधिवेदनिकं स्त्रीधनमुक्तं, तदाह— अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्धं प्र्रंकल्पयेत् ॥ १४८ ॥ यस्या उपरि विवाहः साऽधिविन्ना, सा चासौ स्त्री च; तस्यै अधिविन्नस्त्रियै, आधिवेदनिकमधिवेदननिमित्तं धनं समं यावदधिवेदनार्थं व्ययीकृतं तावद्दद्यात् । यस्यै र्भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम्; दत्ते पुनः स्त्रीधने आधिवेदनिक- द्रव्यस्यार्धं दद्यात् । 'अर्ध' शब्दश्चात्र समविभागवचनो न भवति, अतश्च यावता तत्पूर्वदत्तमाधिवेदनिकसमं भवति तावद् देयमित्यर्थः ॥ १४८ ॥ भाषा—जिस स्त्री के रहते दूसरा विवाह करे तो उस पहली स्त्री को यदि उसे स्त्री-धन न मिला हो तो दूसरे विवाह में व्यय किये गये धन के बराबर आधिवेदनिक ( सन्तोषार्थ ) धन देवे; यदि उसे स्त्री-धन मिला हो तो दूसरे विवाह के व्यय का आधा धन ही देना विहित है ॥ १४८ ॥ एवं विभागमुक्त्वा इदानीं तत्संदेहे निर्णयहेतूनाह— विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ १४९ ॥ विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृबन्धुभिर्मातृबन्धुभिः मातुला- दिभिः साक्षिभिः पूर्वोक्तलक्षणैर्लेख्येन च विभागपत्रेण विभागभावना विभाग- निर्णयो ज्ञातव्यः । तथा यौतकैः पृथक्कृतैर्गृहक्षेत्रैश्च । पृथक्कृष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं च । नारदेन विभागलिङ्गमुक्तम् (१३।३७, ३९)— इति । 'विभागधर्मसंदेहे दायादानां विनिर्णयः । ज्ञातिभिर्भागलेख्येन पृथक्- १. णापहृतं दद्यात् । २. देयमाधि । ३. प्रकीर्तितम् । ४. श्वशुरेण भर्त्रा वा । ५. ज्ञेया क्षेत्रकगृहयौतकैः ।

कार्यप्रवृर्तनात् ॥ भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥' तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि— 'साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन ॥' (ना० १३।४२, ४३ ) इति ॥ १४९ ॥ भाषा—विभाग को अस्वीकार करने पर जाति के लोगों, बन्धुओं, साक्षियों, लेख और पृथक् किये गये घर और खेत से विभाग का निर्णय होता है ॥ १४९ ॥ इति दायविभागप्रकरणम् । अथ सीमाविवादप्रकरणम् ९ अधुना सीमाविवादनिर्णय उच्यते— सीम्नो विवादे क्षेत्रस्य सामन्ताः १स्थविरादयः । गोपाः सीमाकृषाणा२ ये ३सर्वे च वनगोचराः ॥ १५० ॥ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिम्नास्थिचैत्याद्यैश्चै४रुपलक्षिताम् ॥ १५१ ॥ ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथैकग्रामान्तर्वर्तिक्षेत्रमर्या- दाविवादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां चिह्नितां सीमां नयेयुर्निर्णयेयुः । सीमा क्षेत्रादिमर्यादा; सा चतुर्विधा—जनप- दसीमा, ग्रामसीमा, क्षेत्रसीमा, गृहसीमा चेति । सा च यथासंभवं पञ्चलक्षणा । तदुक्तं नारदेन—‘ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता । राजशासननीता च सीमा पञ्चविधा स्मृता ॥' इति ॥ ध्वजिनी वृक्षादिलक्षिता; वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती; 'मत्स्य' शब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती; तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रपत्तिनिर्मिता । राजशा- सननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः संभवति । यथाऽऽह कात्यायनः—'आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥' इति ॥ तथा हि—'ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्ति' इति केनचिदुक्ते पञ्चनिवर्तनैव नाधिके- १. स्थविरा गणाः । २. कृषाणाश्च (= वृद्धबालिका) । ३. चान्ये । ४. रुपलक्षितम् ।

व्यवहाराध्यायः ३०७

स्याधिक्ये विवादः । 'पञ्चनिवर्तना मदीया भूमिः' इत्युक्ते न ततो न्यूनेवेति न्यूनतायाम् । 'पञ्चनिवर्तनो ममांश' इत्युक्ते अंश एव नास्तीत्यस्तिनास्तित्व- विवादः संभवति । 'मदीया भूः प्रागविद्यमानभोगैव भुज्यते' इत्युक्ते न संतता चिरंतन्येव मे 'भुक्ति' रित्यभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद्भाः सामन्ताः । चतसृषु दिक्ष्वनन्तरग्रामादयस्ते च प्रतिसीमं व्यवस्थिताः; 'ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि ॥' इति कात्यायनवचनात् । 'ग्रामादि'शब्देन तत्स्थाः पुरुषा लक्ष्यन्ते । ग्रामः पलायित इति यथा । 'सामन्त'ग्रहणं च तत्संसक्ताद्युपलक्षणार्थम् । उक्तं च कात्यायनेन— 'संसक्तास्तु सामन्तास्तत्संसक्तास्तथोत्तराः । संसक्तस- क्संसक्ताः पङ्गाकाराः प्रकीर्तिताः ॥' इति ॥ स्थविरा वृद्धाः । 'आदि'ग्रहणेन मौलोद्धृतयोर्ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्— 'निष्पद्यमानं यैर्दृष्टं तत्कार्यं तद्गुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते तु वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्तिताः ॥ उपश्रवणसंभोगकार्याख्यानोपचिह्निताः । उद्धरन्ति पुनर्यस्मादुद्धृतास्ते ततः स्मृताः ॥' इति ॥ गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ताः ( ८।२६० )— 'व्याधाञ्शाकुनिकान्गोपान्कैवर्तान्मूलखातकान् । व्यालग्राहांस्तुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥' इति ॥ स्थलमुन्नतो भूप्रदेशः, अङ्गारोऽग्नेरुच्छिष्टम्, तुषा धान्यत्वचः, द्रुमा न्यग्रोधादयः, सेतुर्जलप्रवाहबन्धः, चैत्यं पाषाणादिबन्धः, आदिशब्देन वेणुवालुकादीनां ग्रहणम्, एतानि च प्रकाशाप्रकाशभेदेन द्विप्रा- काराणि । यथाह मनुः ( ८।२४६-२४८ ) 'सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थ- किंशुकान् । शाल्मलीशालतालांश्च क्षीरिणश्चैव पादपान् ॥ गुल्मान्वेणूंश्च विविधा- न्शमीवल्लीस्थलानि च । शरान्कुब्जकगुल्मांश्च यथा सीमा न नश्यति ॥ तडागान्पुदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥' इति प्रकाशरूपाणि । ( मनुः ८।२४९-२५२ )— 'उपच्छन्नानि चान्यानि सीमलिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः । करीषमिष्टकाङ्गारशर्करावा- लुकास्तथा ॥ यानि चैवं प्रकाराणि कालाद् भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ॥'


१. पञ्चकाराः । २. ग्राहान्स्तृब्छवृत्तीन् । ३. कुञ्जकगुल्मांश्च । २० व्या०

३०८ याज्ञवल्क्यस्मृतिः इति प्रच्छन्नलिङ्गानि ॥ एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैः सामन्तादिप्रदर्शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कुर्याद्राजा ॥ १५०-१५१ ॥ भाषा—(दो गाँव की अथवा) खेत की सीमा के विवाद में सामन्त, वृद्धपुरुष, गोप (चरवाहे), सीमा पर के खेत जोतने वाले, और सभी वनचारी (व्याध आदि) ये ऊँची भूमि, कोयला, भूँमी, वृक्ष, सेतु (जल- प्रवाहबन्ध), चीटियों की बाँबी, गड्डों, हड्डियों और पत्थर आदि से चिह्नित करके सीमा का निर्धारण करें ॥ १५०-१५१ ॥ यदा पुनश्चिह्नानि न सन्ति, विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि, तदा निर्णयोपायमाह— सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ १५२ ॥ सामन्ताः पूर्वोक्तलक्षणाः, समग्रामाश्चत्वारोऽष्टौ दशापि वेत्येवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्ध्न्यारोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । ‘सामन्ता वा’ इति विकल्पाभिधानं स्मृत्यन्तरोक्त- साक्ष्यभिप्रायम् । यथाहऽऽह मनुः (८।२५३)—‘साक्षिप्रत्यय एव स्यात्सीमा- वादविनिर्णये’ इति ॥ तत्र च साक्षिणां निर्णयतृत्वं मुख्यम्; तदभावे सामन्तानाम् । तदुक्तम् (मनुः ८।२५८)—‘साक्ष्यभावे तु चत्वारो ग्राम्याः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥’ इति; तदभावे तत्सक्तादीनां निर्णयतृत्वम् । यथाहऽऽह कात्यायनः—‘स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥ संसक्तसक्तैर्दाषे तु तत्संसक्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता ॥’ इति । सामन्ताद्यभावे मौलादयो ग्राह्याः; ‘तेषामभावे सामन्त- मौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा ॥’ इति कात्या- यनेन कर्मविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति । ‘सामन्ताः साधनं पूर्वं निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ॥’ इति स्मरणात् ॥ ते च साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैः ज्ञापिताः सन्तः सीमां नयेयुः; (मनुः ८।२५६)—‘शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । सुकृतैः ज्ञापिताः स्वैः स्वैर्नयेयुस्ते समंजसम् ॥’ इति स्मर- णात् । नयेयुरिति बहुवचनं द्वयोर्निरासार्थं नैकस्य । ‘एकश्चेदुन्नयेत्सीमा सोपवासः १. प्रकाशितैः । २. समा ग्रामा । ३. कुर्वीत । ४. दोषेषु । ५. क्रमाभिधानात् ।

समुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय मूर्धनि ॥' ( ना० ११।१०।९ ) इति नारदे नैकस्याभ्यनुज्ञानात् ॥ योऽयं—'नैकः समुन्नयेत्सीमां नरः प्रत्ययवा- नपि । गुरुत्वादस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥' इत्येकस्य निषेधः स उभया- नुमतधर्मविद्व्यतिरिक्तविषय इत्यविरोधः ॥ स्थलादिचिह्नाभावेऽपि साक्षिसामन्ता- दीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः—'निम्नगापहतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणाद्भोगदर्शनात् ॥' ( ना. ११।६ ) इति । निम्नगाया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात्प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानादुत्सृष्टनष्टचिह्नानां प्राचीन- प्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षमविप्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर्वा निश्चिनुयुः ॥ बृहस्पतिना चात्र विशेषो दर्शितः—'आगमं च प्रमाणं च भोगं कालं च नाम च । भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥' इति । एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः (८।२५४)—'ग्रामेयककुलानां तु समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीम- लिङ्गानि तयोश्चैव विवादिनोः ॥' इति । ते च पृष्टाः साक्ष्यादयः समस्ता ऐकमत्येन सीम्नि निर्णयं ब्रूयुः । तैर्निणीतां सीमां तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थं पत्रे समारोपयेत् । उक्तं च मनुना ( ८।२६१ )—'ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् । निबध्नी- यात्तथा सीमां सर्वांस्तांश्चैव नामतः ॥' इति । एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्क्रमणदिनादारभ्य यावत्त्रिपक्षं राजदैविकव्यसनाद्यसनं चेद्दोषयते तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायने- नोक्तः—'सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहां दैवराज्ञि- कमिष्यते ॥' इति ॥ १५२ ॥ भाषा—(यदि कोई चिह्न न हों तो) सामन्त, आसपास के चार, आठ या दस ग्रामवासी लाल रंग का वस्त्र धारण करके एवं शिर पर मिट्टी का ढेला रखकर सीमा निर्धारित करें ॥ १५२ ॥ यदा त्वमीषामुुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते, अथवा प्रति- वादिनिर्दिष्टाभ्यधिकसंख्यगुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह— अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । ४. पलक्षितैर्भुक्तेर्वा । ५. साक्षिणः सामन्तादयः । ६. सीमानं ।

३१० याज्ञवल्क्यस्मृतिः

अनृते मिथ्यावदने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य सौचि- मौलादीनां स्मृत्यन्तरे दण्डान्तरविधानावगम्यते । यथाऽऽह मनुः (८।२५७)- 'यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्वि- शतं दमम् ॥' इति ॥ नारदोऽपि ( १।१७ )—'अथ चेदनृतं ब्रूयुः सामन्ताः सीमनिर्णये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥' इति सामन्तानां मध्यमसाहसं दण्डमभिधाय—'शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ॥' इति, तत्संसक्तादिषु प्रथमं साहसमुक्तवान् । मौलादीनामपि तमेव दण्डमाह—'मौलवृद्धादयस्त्वन्ये दण्डगस्त्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥' ( ना० १।१८ ) इति । 'आदि'- शब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापपरत्वाल्लिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथाऽपि लिङ्गदर्शन एव मृषाभाषित्त्वसंभवाद्वण्डविधानमुपपद्यत एव । 'अनृते तु पृथग् दण्डया' इत्येत- द्दण्डविधानमज्ञानविषयम्; 'बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भ- याद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥' इति ज्ञानविषये साक्ष्यादीनां कारणा- यनेन दण्डान्तरविधानात् । तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तेनैवोक्तः— 'कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्' इति । एवमज्ञानादिनानृतवदने साक्ष्यादीन्दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः । 'अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत्' इत्युक्त्वा 'त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह । संमिश्रय कारयेत्सीमांमेवं धर्मविदो विदुः ॥' इति निर्णयप्रकारस्तेनैवोक्तः ॥-

यदा पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति, तदा कथं निर्णय इत्यत आह—

अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रैवर्तता ॥ १५३ ॥

ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीम्नः प्रवतिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वयमध्यवर्तिनीं विवादा- स्पदीभूतां भुवं समं प्रविभज्य 'अस्येयं भूरस्येयम्' इत्युभयोः समर्प्य तन्मध्ये सीमलिङ्गानि कुर्यात् । यदा तस्यां भूमावन्यतरस्योपकारातिशयो दृश्यते, तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाऽऽह मनुः (८।२६५)—'सीमा- यामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेतेषामुपकारादिति स्थितिः ॥' इति ॥ १५३ ॥

१. मिथ्यावदते । २. साक्ष्यमौलादीनां । ३. प्रवर्तकः ।

व्यवहाराध्यायः ३११

भाषा-इन ( सामन्त आदि) के झूठ बोलने पर राजा को इन्हें मध्यमसाहस का दण्ड देना चाहिए। जानने वाले सामन्त आदि और वृक्ष आदि चिह्न न हों तो राजा ही सीमा निश्चित करे ॥ १५३ ॥ असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेर्न्यायमूलतां दर्शयितुमतिदेशमाह- आरामायतनग्रामनिपानोद्यानवेश्मसु । एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ १५४ ॥ आरामः पुष्पफलोपचयहेतुर्भूभागः, आयतनं निवेशनं २पलालकूटाद्यर्थं विभक्तो भूप्रदेशः, ग्रामः प्रसिद्धः, 'ग्राम' ग्रहणं च नगराद्युपलक्षणार्थम्, निपानं पानीयस्थानं वापीकूपप्रभृतिकम्, उद्यानं क्रीडार्था भूमिः, वेश्म गृहम्, एतेष्वादिष्वयमेव सामन्तसाक्ष्यादिलक्षणो विधिर्ज्ञातव्यः । तथा प्रवर्षगो- द्भूतजलप्रवाहेषु अनयोर्गृहयोर्मध्येन जलौघः प्रवहति अनयोर्वेत्येवंप्रकारे विवादे 'आदि' ग्रहणत्प्रासादादिष्वपि प्राचीन एव विधिर्वेदितव्यः । तथा च कात्या- यनः-'क्षेत्रकूपतडागानां केदारारामयोरपि । गृहप्रासादावसथ नृपदेवगृहेषु च ॥' इति ॥ १५४ ॥ भाषा-यही विधि वाटिका, आयतन ( बैठक), गाँव, वापी, कूप आदि जलस्थल, उद्यान और घर की सीमा का निर्धारण करने में भी होती है। वर्षा का जल जिस मार्ग से बहता हो उसके संबन्ध में भी यह विधि समझनी चाहिए ॥ १५४ ॥ सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्यादाप्रभेदनादौ दण्डमाह- मर्यादायाः प्रभेदे च ३ ४सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ १५५ ॥ अनेकक्षेत्रव्यवच्छेदिका साधारणा भूर्म्मर्यादा, तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथा- क्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः । 'क्षेत्र' ग्रहणं चात्र गृहा- रामाद्युपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति, तदा द्विशतो दमो वेदितव्यः । यथाऽऽह मनुः ( ८।२६४ )-'गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतो दमः ॥' इति ।


१. प्रवहेषु च । २. पलालादिकूटाद्यर्थं । ३. तु । ४. क्षेत्रस्य हरणे तथा । ५. सीमातिक्रमणे दण्ड्या । ६. साधारणी । ७. सीमा- नमतिलङ्घ्य ।

३१२ . याज्ञवल्क्यस्मृतिः अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अत एवाह—'वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥' इति ॥ १५५ ॥ ० भाषा—मर्यादा ( खेतों के बीच मे बनी हुई मेंड़ ) को तोड़ने और सीमा को पार करने ( अधिक जोतने ) और धमकी देकर खेत छीन लेने पर क्रमशः अधम, उत्तम और मध्यमसाहस का दण्ड समझना चाहिए ॥ १५५ ॥ यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुमि- च्छति तन्निषेधतः क्षेत्रस्वामिन एव दण्ड इत्याह— न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकेः । परभूमिं १हरन्कूपः स्वल्पक्षेत्रो बहूदकः ॥ १५६ ॥ परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेदोषपीडाकरो बहूपकारकश्च भवति । कूपश्चाल्पक्षेत्रव्यापित्वेना- ल्पबाधो बहूदकत्वेन कल्याणकारकश्चेतो २बहूदको नैव निवारणीयः । 'कूप' ग्रहणं च वापोपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनरसौ ३सर्वक्षेत्रवर्तितया बहु- बाधो नद्यादिसमीपक्षेत्रवर्तितया वाऽल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति । सेतोश्च द्वैविध्यमुक्तं नारदेन ( १५।१८ )—'सेतुश्च द्विविधो ज्ञेयः खेयो बन्धस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥' इति यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाऽऽह नारदः ( ११।२०-२१ )—'पूर्व- प्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्त्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुवस्तद्वंश्ये वाऽपि मानवे । राजानमामन्त्र्य ततः कुर्यात्सेतु- प्रवर्त्तनम् ॥' इति ॥ १५६ ॥ भाषा—थोड़ी भूमि के लगने से बहुत कल्याण देने वाला सेतु दूसरे के भूमि में बनाने पर भी भूमि का स्वामी मना न करे । दूसरे की भूमि लेकर कुआँ बनवाने पर भूमि की हानि कम होती है और उससे जल का लाभ अधिक होता है ॥ १५६ ॥ क्षेत्रस्वामिनं प्रत्युपदिष्टम् , इदानीं सेतोः प्रवर्त्तयितारं प्रत्याह— स्वामिने ४योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ १. हरेत् । २. बहूपकारको नैव । ३. समग्रक्षेत्र । ४. अविनिवेद्यैव ।

व्यवहाराध्यायः ३१३ क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वा यः परक्षेत्रे सेतुं प्रवर्त- यत्यसौ फलभाङ् न भवति, अपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तद- भावे राज्ञः। तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वाऽनुज्ञाप्यैव परक्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्य्यार्थः ॥ १५७ ॥ भाषा—जो खेत के स्वामी से बिना पूछे ही खेत में सेतु बनाता है, उससे फल होने पर खेत का स्वामी ही उसका अधिकारी होता है । उसके न होने पर वह लाभ राजा को प्राप्त होता है ॥ १५७ ॥ क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तम् , इदानीं तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद्विध्यन्तरमाह— फालाहतमपि क्षेत्रं न² कुर्य्याद्यो न कारयेत् । स³ प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ १५८ ॥ यः पुनः क्षेत्रस्वामिपार्श्वे 'अहमिदं क्षेत्रं कृषामि' इत्यङ्गीकृत्य पश्चादुत्सृ- जति, न चान्येन कर्षयति, तच्च क्षेत्रं यद्यपि फालाहतं ईषद्वलेन विदारितं न सम्यग्बीजावापाहं तथाऽपि तस्याकृष्टस्य फलं यावत्तत्रोत्पत्स्यहं सामन्तादि- कल्पितं तावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् ॥ १५८ ॥ भाषा—जो खेत के स्वामी से खेत लेकर थोड़ा जोतकर फिर न अपने जोतता है और न किसी दूसरे को जोतने देता है उससे उस खेत में जितना पैदा होता है उतना अन्न दिलावे और खेत दूसरे को जोतने के लिए देवे ॥ १५८ ॥ इति सीमाविवादप्रकरणम् । अथ स्वामिपालविवादप्रकरणम् १० व्यवहारपदानां परस्परहेतुँ हेतुमद्भावाभावात् 'तेषामद्यमृणादानम्' इत्यादि- पाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते— माषानष्टौ तु महिषी सस्यघातस्य कारिणी । दण्डनीया तदर्धं तु गौस्तदर्धमजाविकम् ॥ १५९ ॥


१. भ्युपगमय्य । २. यो न कुर्यान्न । ३. तं प्रदाप्या- कृष्टशदं ( = शदः क्षेत्रस्य फलं, अकृष्टस्य क्षेत्रस्य शदः । अकृष्टेऽपि क्षेत्रे तं प्रदाप्य क्षेत्रमन्यस्यार्पयेत् ) । ४. हेतुमद्भावात् ।

३१४ याज्ञवल्क्यस्मृतिः . परसस्यविनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदर्धं चतुरो माषान् । अजा मेषाश्च माषद्वयं दण्डनीयाः । महिष्यादीनां धनसंबन्ध- भावात्तत्स्वामी पुरुषो लक्ष्यते । माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः । 'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एत- च्चाज्ञानविषयम्; ज्ञानपूर्वे तु 'पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत्पुनर्नारदेनोक्तम् ( ११।३१ )—'माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथाऽजाऽविकवत्सानां दण्डः स्यादर्धमाषिकः ॥' इति तत्पुनःप्ररोहयोग्यमूला- वशेषभक्षणविषयम् ॥ १५९ ॥ भाषा—यदि किसी की भैंस दूसरे की फसल नष्ट करे तो उससे आठ माष दण्ड लेना चाहिए, गाय चरे तो उसके आधे चार माष दण्ड ले और बकरा तथा भेड़ चरे तो उसके भी आधा (दो माष) दण्ड वसूल करे ॥ १५९ ॥ अपराधातिशयेन क्वचिद्दण्डद्वैगुण्यमाह— भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथो- क्ताद्दण्डाद् द्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर्भक्षयित्वोपविष्टानां यथोक्तदण्डाच्चतुर्गुणो दण्डो वेदितव्यः । 'वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः' इति वचनात् ॥ क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह— सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ १६० ॥ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः, तदुपघातेऽपीत- रक्षेत्रदण्डेन समं दण्डमेषां महिष्यादीनां विद्यात् । खरश्च उष्ट्रश्च खरोष्ट्रं तन्महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्य- त्वाद्दण्डस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः ॥१६०॥ भाषा—यदि पशु किसी दूसरे की फसल चरकर वहाँ बैठा भी हो तो, भी बताये गये दण्ड का दूना दण्ड होता है । विवीत (बाड़े) में भैंस आदि प्रवेश करे तो पहले के समान ही दण्ड ले । इस संबन्ध में गदहा और ऊँट के लिये भी भैंसे के समान दण्ड होता है ॥ १६० ॥ १. गां तद्विगुणं ।

व्यवहाराध्यायः ३१५ परसस्यविनाशे गोस्वामिनो दण्ड उक्तः, इदानीं क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह— ^१यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । ^२गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ १६१ ॥ ‘सस्य’ग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन्क्षेत्रे यावत्पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलं ‘एतावति क्षेत्रे एतावद्भवति’ इति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव, न फलं दापनीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यनाशे द्रष्टव्यम् । ‘या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनां दण्डः पालस्तं दण्डमर्हति ॥’ इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे पूर्वोक्तं दण्डमेवार्हति, न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव; तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादि- भक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितमूल्यदानेन क्रीतप्रायत्वात् । अत एव नारदः—गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं ^५गोमिने देयं धान्यं वै कर्ष- कस्य तु ॥’ इति ॥ १६१ ॥ भाषा—गाँव के निकट के मार्ग में, और पशुओं के बाड़े के निकट के जितनी फसल चरे या नष्ट किये हो उतने का फल खेत के स्वामी को मिले । चरवाहे को पीटना चाहिए और गाय के स्वामी से उपरोक्त दण्ड ही लेना चाहिए ॥ १६१ ॥ क्षेत्रविशेषे अपवादमाह— पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥ १६२ ॥ पथि मार्गसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर्भक्षिते गोपगोमिनोर्द्वयोरप्यदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमूल्यादानप्रतिषेधार्थं च । कामचारे कामतश्चारणे चौरवत् चौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् ; ‘तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ १. विनश्येत तावत्क्षेत्री फलं लभेत् । २. पालस्ताड्योत गोमी तु पूर्वव- दण्ड । पालस्ताड्योऽथ गोमी तु पूर्वोक्तं । ३. गोमिन एव । ४. मूल्यद्वारेण । ५. गोमिनो देयं ।