भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 365, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 365

समुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय मूर्धनि ॥' ( ना० ११।१०।९ ) इति नारदे नैकस्याभ्यनुज्ञानात् ॥ योऽयं—'नैकः समुन्नयेत्सीमां नरः प्रत्ययवा- नपि । गुरुत्वादस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥' इत्येकस्य निषेधः स उभया- नुमतधर्मविद्व्यतिरिक्तविषय इत्यविरोधः ॥ स्थलादिचिह्नाभावेऽपि साक्षिसामन्ता- दीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः—'निम्नगापहतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणाद्भोगदर्शनात् ॥' ( ना. ११।६ ) इति । निम्नगाया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात्प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानादुत्सृष्टनष्टचिह्नानां प्राचीन- प्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षमविप्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर्वा निश्चिनुयुः ॥ बृहस्पतिना चात्र विशेषो दर्शितः—'आगमं च प्रमाणं च भोगं कालं च नाम च । भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥' इति । एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः (८।२५४)—'ग्रामेयककुलानां तु समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीम- लिङ्गानि तयोश्चैव विवादिनोः ॥' इति । ते च पृष्टाः साक्ष्यादयः समस्ता ऐकमत्येन सीम्नि निर्णयं ब्रूयुः । तैर्निणीतां सीमां तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थं पत्रे समारोपयेत् । उक्तं च मनुना ( ८।२६१ )—'ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् । निबध्नी- यात्तथा सीमां सर्वांस्तांश्चैव नामतः ॥' इति । एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्क्रमणदिनादारभ्य यावत्त्रिपक्षं राजदैविकव्यसनाद्यसनं चेद्दोषयते तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायने- नोक्तः—'सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहां दैवराज्ञि- कमिष्यते ॥' इति ॥ १५२ ॥ भाषा—(यदि कोई चिह्न न हों तो) सामन्त, आसपास के चार, आठ या दस ग्रामवासी लाल रंग का वस्त्र धारण करके एवं शिर पर मिट्टी का ढेला रखकर सीमा निर्धारित करें ॥ १५२ ॥ यदा त्वमीषामुुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते, अथवा प्रति- वादिनिर्दिष्टाभ्यधिकसंख्यगुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह— अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । ४. पलक्षितैर्भुक्तेर्वा । ५. साक्षिणः सामन्तादयः । ६. सीमानं ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 365, कुल 782 में से · BharatKosha