याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 366, कुल 782 में से
संदर्भ में पढ़ें३१० याज्ञवल्क्यस्मृतिः
अनृते मिथ्यावदने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य सौचि- मौलादीनां स्मृत्यन्तरे दण्डान्तरविधानावगम्यते । यथाऽऽह मनुः (८।२५७)- 'यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्वि- शतं दमम् ॥' इति ॥ नारदोऽपि ( १।१७ )—'अथ चेदनृतं ब्रूयुः सामन्ताः सीमनिर्णये । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥' इति सामन्तानां मध्यमसाहसं दण्डमभिधाय—'शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम् ॥' इति, तत्संसक्तादिषु प्रथमं साहसमुक्तवान् । मौलादीनामपि तमेव दण्डमाह—'मौलवृद्धादयस्त्वन्ये दण्डगस्त्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥' ( ना० १।१८ ) इति । 'आदि'- शब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापपरत्वाल्लिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथाऽपि लिङ्गदर्शन एव मृषाभाषित्त्वसंभवाद्वण्डविधानमुपपद्यत एव । 'अनृते तु पृथग् दण्डया' इत्येत- द्दण्डविधानमज्ञानविषयम्; 'बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भ- याद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥' इति ज्ञानविषये साक्ष्यादीनां कारणा- यनेन दण्डान्तरविधानात् । तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तेनैवोक्तः— 'कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्' इति । एवमज्ञानादिनानृतवदने साक्ष्यादीन्दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः । 'अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत्' इत्युक्त्वा 'त्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह । संमिश्रय कारयेत्सीमांमेवं धर्मविदो विदुः ॥' इति निर्णयप्रकारस्तेनैवोक्तः ॥-
यदा पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति, तदा कथं निर्णय इत्यत आह—
अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रैवर्तता ॥ १५३ ॥
ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीम्नः प्रवतिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वयमध्यवर्तिनीं विवादा- स्पदीभूतां भुवं समं प्रविभज्य 'अस्येयं भूरस्येयम्' इत्युभयोः समर्प्य तन्मध्ये सीमलिङ्गानि कुर्यात् । यदा तस्यां भूमावन्यतरस्योपकारातिशयो दृश्यते, तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाऽऽह मनुः (८।२६५)—'सीमा- यामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेतेषामुपकारादिति स्थितिः ॥' इति ॥ १५३ ॥
१. मिथ्यावदते । २. साक्ष्यमौलादीनां । ३. प्रवर्तकः ।