याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 364, कुल 782 में से
संदर्भ में पढ़ें३०८ याज्ञवल्क्यस्मृतिः इति प्रच्छन्नलिङ्गानि ॥ एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैः सामन्तादिप्रदर्शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कुर्याद्राजा ॥ १५०-१५१ ॥ भाषा—(दो गाँव की अथवा) खेत की सीमा के विवाद में सामन्त, वृद्धपुरुष, गोप (चरवाहे), सीमा पर के खेत जोतने वाले, और सभी वनचारी (व्याध आदि) ये ऊँची भूमि, कोयला, भूँमी, वृक्ष, सेतु (जल- प्रवाहबन्ध), चीटियों की बाँबी, गड्डों, हड्डियों और पत्थर आदि से चिह्नित करके सीमा का निर्धारण करें ॥ १५०-१५१ ॥ यदा पुनश्चिह्नानि न सन्ति, विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि, तदा निर्णयोपायमाह— सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ १५२ ॥ सामन्ताः पूर्वोक्तलक्षणाः, समग्रामाश्चत्वारोऽष्टौ दशापि वेत्येवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्ध्न्यारोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । ‘सामन्ता वा’ इति विकल्पाभिधानं स्मृत्यन्तरोक्त- साक्ष्यभिप्रायम् । यथाहऽऽह मनुः (८।२५३)—‘साक्षिप्रत्यय एव स्यात्सीमा- वादविनिर्णये’ इति ॥ तत्र च साक्षिणां निर्णयतृत्वं मुख्यम्; तदभावे सामन्तानाम् । तदुक्तम् (मनुः ८।२५८)—‘साक्ष्यभावे तु चत्वारो ग्राम्याः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥’ इति; तदभावे तत्सक्तादीनां निर्णयतृत्वम् । यथाहऽऽह कात्यायनः—‘स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥ संसक्तसक्तैर्दाषे तु तत्संसक्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता ॥’ इति । सामन्ताद्यभावे मौलादयो ग्राह्याः; ‘तेषामभावे सामन्त- मौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा ॥’ इति कात्या- यनेन कर्मविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति । ‘सामन्ताः साधनं पूर्वं निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ॥’ इति स्मरणात् ॥ ते च साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैः ज्ञापिताः सन्तः सीमां नयेयुः; (मनुः ८।२५६)—‘शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । सुकृतैः ज्ञापिताः स्वैः स्वैर्नयेयुस्ते समंजसम् ॥’ इति स्मर- णात् । नयेयुरिति बहुवचनं द्वयोर्निरासार्थं नैकस्य । ‘एकश्चेदुन्नयेत्सीमा सोपवासः १. प्रकाशितैः । २. समा ग्रामा । ३. कुर्वीत । ४. दोषेषु । ५. क्रमाभिधानात् ।