भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 363, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 363

व्यवहाराध्यायः ३०७

स्याधिक्ये विवादः । 'पञ्चनिवर्तना मदीया भूमिः' इत्युक्ते न ततो न्यूनेवेति न्यूनतायाम् । 'पञ्चनिवर्तनो ममांश' इत्युक्ते अंश एव नास्तीत्यस्तिनास्तित्व- विवादः संभवति । 'मदीया भूः प्रागविद्यमानभोगैव भुज्यते' इत्युक्ते न संतता चिरंतन्येव मे 'भुक्ति' रित्यभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद्भाः सामन्ताः । चतसृषु दिक्ष्वनन्तरग्रामादयस्ते च प्रतिसीमं व्यवस्थिताः; 'ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि ॥' इति कात्यायनवचनात् । 'ग्रामादि'शब्देन तत्स्थाः पुरुषा लक्ष्यन्ते । ग्रामः पलायित इति यथा । 'सामन्त'ग्रहणं च तत्संसक्ताद्युपलक्षणार्थम् । उक्तं च कात्यायनेन— 'संसक्तास्तु सामन्तास्तत्संसक्तास्तथोत्तराः । संसक्तस- क्संसक्ताः पङ्गाकाराः प्रकीर्तिताः ॥' इति ॥ स्थविरा वृद्धाः । 'आदि'ग्रहणेन मौलोद्धृतयोर्ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्— 'निष्पद्यमानं यैर्दृष्टं तत्कार्यं तद्गुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते तु वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्तिताः ॥ उपश्रवणसंभोगकार्याख्यानोपचिह्निताः । उद्धरन्ति पुनर्यस्मादुद्धृतास्ते ततः स्मृताः ॥' इति ॥ गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ताः ( ८।२६० )— 'व्याधाञ्शाकुनिकान्गोपान्कैवर्तान्मूलखातकान् । व्यालग्राहांस्तुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥' इति ॥ स्थलमुन्नतो भूप्रदेशः, अङ्गारोऽग्नेरुच्छिष्टम्, तुषा धान्यत्वचः, द्रुमा न्यग्रोधादयः, सेतुर्जलप्रवाहबन्धः, चैत्यं पाषाणादिबन्धः, आदिशब्देन वेणुवालुकादीनां ग्रहणम्, एतानि च प्रकाशाप्रकाशभेदेन द्विप्रा- काराणि । यथाह मनुः ( ८।२४६-२४८ ) 'सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थ- किंशुकान् । शाल्मलीशालतालांश्च क्षीरिणश्चैव पादपान् ॥ गुल्मान्वेणूंश्च विविधा- न्शमीवल्लीस्थलानि च । शरान्कुब्जकगुल्मांश्च यथा सीमा न नश्यति ॥ तडागान्पुदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥' इति प्रकाशरूपाणि । ( मनुः ८।२४९-२५२ )— 'उपच्छन्नानि चान्यानि सीमलिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः । करीषमिष्टकाङ्गारशर्करावा- लुकास्तथा ॥ यानि चैवं प्रकाराणि कालाद् भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ॥'


१. पञ्चकाराः । २. ग्राहान्स्तृब्छवृत्तीन् । ३. कुञ्जकगुल्मांश्च । २० व्या०