याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 362, कुल 782 में से
संदर्भ में पढ़ेंकार्यप्रवृर्तनात् ॥ भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥' तथाऽपराण्यपि विभागलिङ्गानि तेनैवोक्तानि— 'साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्युर्नाविभक्ताः कथंचन ॥' (ना० १३।४२, ४३ ) इति ॥ १४९ ॥ भाषा—विभाग को अस्वीकार करने पर जाति के लोगों, बन्धुओं, साक्षियों, लेख और पृथक् किये गये घर और खेत से विभाग का निर्णय होता है ॥ १४९ ॥ इति दायविभागप्रकरणम् । अथ सीमाविवादप्रकरणम् ९ अधुना सीमाविवादनिर्णय उच्यते— सीम्नो विवादे क्षेत्रस्य सामन्ताः १स्थविरादयः । गोपाः सीमाकृषाणा२ ये ३सर्वे च वनगोचराः ॥ १५० ॥ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिम्नास्थिचैत्याद्यैश्चै४रुपलक्षिताम् ॥ १५१ ॥ ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथैकग्रामान्तर्वर्तिक्षेत्रमर्या- दाविवादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां चिह्नितां सीमां नयेयुर्निर्णयेयुः । सीमा क्षेत्रादिमर्यादा; सा चतुर्विधा—जनप- दसीमा, ग्रामसीमा, क्षेत्रसीमा, गृहसीमा चेति । सा च यथासंभवं पञ्चलक्षणा । तदुक्तं नारदेन—‘ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता । राजशासननीता च सीमा पञ्चविधा स्मृता ॥' इति ॥ ध्वजिनी वृक्षादिलक्षिता; वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती; 'मत्स्य' शब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती; तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रपत्तिनिर्मिता । राजशा- सननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः संभवति । यथाऽऽह कात्यायनः—'आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥' इति ॥ तथा हि—'ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्ति' इति केनचिदुक्ते पञ्चनिवर्तनैव नाधिके- १. स्थविरा गणाः । २. कृषाणाश्च (= वृद्धबालिका) । ३. चान्ये । ४. रुपलक्षितम् ।