याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 358, कुल 782 में से
संदर्भ में पढ़ें३०२ याज्ञवल्क्यस्मृतिः तम् ॥ यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावह्निकं नाम स्त्रीधनं तदुदाहृतम् ॥ प्रीत्या दत्तं तु यत्किंचिच्छ्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । ऊढया कन्यया वाऽपि पत्युः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥' इति ॥ १४३ ॥ भाषा—पिता, माता, पति और भाई द्वारा दिया गया धन, विवाह में अग्नि के निकट मिला हुआ धन, आधिवेदनिक (दूसरा विवाह करते समय पति द्वारा पहली स्त्री के सन्तोष के लिये प्रदत्त) धन इत्यादि स्त्रीधन कहे गये हैं ॥ १४३ ॥ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च । किंच बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तम्, शुल्कं यद् गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनादनु पश्चादाहितं दत्तम् । उक्तं च कात्यायनेन—'विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तु तद्द्रव्यं लब्धं पितृकुलात्तथा ॥' इति स्त्रीधनं परिकीर्तितमिति गतेन संबन्धः ॥ एवं स्त्रीधनमुक्तं, तद्विभागमाह— अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः ॥ १४४ ॥ तत्पूर्वोक्तं स्त्रीधनमप्रजसि अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां बान्धवा भर्तृादयो वक्ष्यमाणा गृह्णन्ति ॥ १४४ ॥ भाषा—स्त्री के मातृपक्ष एवं पितृपक्ष के बन्धुओं द्वारा दिया गया धन, शुल्क (जो धन लेकर कन्या दी जाय), और अन्वाधेयक (विवाह के बाद पतिकुल या पितृकुल से प्राप्त) धन भी स्त्रीधन कहलाता है। स्त्री के बिना सन्तान (पुत्री, नाती, नाती के पुत्र आदि) मर जाने पर पति आदि बान्धव स्त्रीधन ग्रहण करते हैं ॥ १४४ ॥ सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः। इदानीं विवाहभेदेना- धिकारिभेदमाह— अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि । दुहितृणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ १४५ ॥ अप्रजसः स्त्रियाः पूर्वोक्तायाः ब्राह्मादैवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर्भवति । तदभावे तत्प्र- त्यासन्नानां सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु
१. भर्तुः सकाशात् । २. अप्रजायाममतीतायां । ३. अप्रजस्त्रियाः ।