भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 359, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 359

व्यवहाराध्यायः ३०३ तदप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृ- गामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेद् दुहितॄणां तद्धनं भवति । अत्र ‘दुहितृ’शब्देन दुहितृदुहितर उच्यन्ते । साक्षाद् दुहितॄणां ‘मातुर्दुहितरः शेषम्’ ( व्य० ११७ ) इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि वृत्तायां प्रथमं दुहितरो गृह्णन्ति; तत्र चोढाऽनूढासमवायेऽनूढैव गृह्णाति; तदभावे च परिणीता; तत्रापि प्रतिष्ठिताऽप्रतिष्ठितसमवायेऽप्रतिष्ठिता गृह्णाति, तदभावे प्रतिष्ठिता; यथाह गौतमः (२९।६)—'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति । तत्र 'च'शब्दात्प्रतिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच्च शुल्कव्यतिरकेण । शुल्कं तु सोदर्याणामेव; ‘भगिनीशुल्कं सोदर्याणामूर्ध्वं मातुः’ (२९।६) इति गौतमवचनात् । सर्वासां दुहितॄणामभावे दुहितृदुहितरो गृह्णन्ति; ‘दुहितॄणां प्रसूता चेत्’ इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विष- माणां समवाये मातृद्वारेण भागकल्पना; ‘प्रतिमातृ वा स्वैवर्गेण भागविशेषः’ (२९।५) इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचि- देव दातव्यम्; यथाह मनुः ( ९।१९३ )—'यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । मातामह्या धनात्किंचित्प्रदेयं प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणाम- प्यभावे दौहित्रा धनहारिणः; यथाह नारदः—( १३।२ ) ‘मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः’ इति । तच्छब्देन संनिहितदुहितृपरामर्शात् ॥ दौहित्राणाम- भावे पुत्रा गृह्णन्ति । ‘ताभ्य ऋतेऽन्वय’ ( व्य० ११७ ) इत्युक्तत्वात् । मनुरपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति ( ९।१९२ )—'जनन्यां संस्थि- तायां तु सर्वे सहोदराः । समं भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥' इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन्, सनाभयो भगिन्यश्च समं भजेरन्निति संबन्धः; न पुनः सहोदरा भगिन्यश्च संभूय भजेरन्निति इतरेतरयोगस्य द्वन्द्वैक- शेषाभावादप्रतीतेः । विभागकर्तृत्वान्वयेनापि 'च'शब्दोपपत्तेः; यथा देवदत्तः कृषिं कुर्याद्यज्ञदत्तश्चेति । 'सम'ग्रहणमुद्धारविभागनिवृत्त्यर्थम् । 'सोदर'ग्रहणं भिन्नोदर- निवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता गृह्णाति, तदभावे तदपत्यम्; यथाऽऽह मनुः ( ९।१९८ )—'स्त्रियास्तु यद्भवे- द्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥' इति । ‘ब्राह्मणी’ग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणामभावे पौत्राः पितामहीधनहारिणः । 'रिक्थभाज ऋणं प्रति- कुर्युः' ( २९।७ ) इति गौतमस्मरणात्, ‘पुत्रपौत्रैर्ऋणं देयम्’ (व्य० ५०) इति १. स्ववर्गे भाग, स्वस्ववर्गेण । २. कर्तृत्वेनान्वयेनापि ।