भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 371, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 371

व्यवहाराध्यायः ३१५ परसस्यविनाशे गोस्वामिनो दण्ड उक्तः, इदानीं क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह— ^१यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । ^२गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ १६१ ॥ ‘सस्य’ग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन्क्षेत्रे यावत्पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलं ‘एतावति क्षेत्रे एतावद्भवति’ इति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव, न फलं दापनीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यनाशे द्रष्टव्यम् । ‘या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनां दण्डः पालस्तं दण्डमर्हति ॥’ इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे पूर्वोक्तं दण्डमेवार्हति, न ताडनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव; तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादि- भक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पितमूल्यदानेन क्रीतप्रायत्वात् । अत एव नारदः—गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते । सामन्तानुमतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं ^५गोमिने देयं धान्यं वै कर्ष- कस्य तु ॥’ इति ॥ १६१ ॥ भाषा—गाँव के निकट के मार्ग में, और पशुओं के बाड़े के निकट के जितनी फसल चरे या नष्ट किये हो उतने का फल खेत के स्वामी को मिले । चरवाहे को पीटना चाहिए और गाय के स्वामी से उपरोक्त दण्ड ही लेना चाहिए ॥ १६१ ॥ क्षेत्रविशेषे अपवादमाह— पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥ १६२ ॥ पथि मार्गसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर्भक्षिते गोपगोमिनोर्द्वयोरप्यदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमूल्यादानप्रतिषेधार्थं च । कामचारे कामतश्चारणे चौरवत् चौरस्य यादृशो दण्डस्तादृशं दण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् ; ‘तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ १. विनश्येत तावत्क्षेत्री फलं लभेत् । २. पालस्ताड्योत गोमी तु पूर्वव- दण्ड । पालस्ताड्योऽथ गोमी तु पूर्वोक्तं । ३. गोमिन एव । ४. मूल्यद्वारेण । ५. गोमिनो देयं ।