भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 370, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 370

३१४ याज्ञवल्क्यस्मृतिः . परसस्यविनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदर्धं चतुरो माषान् । अजा मेषाश्च माषद्वयं दण्डनीयाः । महिष्यादीनां धनसंबन्ध- भावात्तत्स्वामी पुरुषो लक्ष्यते । माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः । 'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एत- च्चाज्ञानविषयम्; ज्ञानपूर्वे तु 'पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत्पुनर्नारदेनोक्तम् ( ११।३१ )—'माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथाऽजाऽविकवत्सानां दण्डः स्यादर्धमाषिकः ॥' इति तत्पुनःप्ररोहयोग्यमूला- वशेषभक्षणविषयम् ॥ १५९ ॥ भाषा—यदि किसी की भैंस दूसरे की फसल नष्ट करे तो उससे आठ माष दण्ड लेना चाहिए, गाय चरे तो उसके आधे चार माष दण्ड ले और बकरा तथा भेड़ चरे तो उसके भी आधा (दो माष) दण्ड वसूल करे ॥ १५९ ॥ अपराधातिशयेन क्वचिद्दण्डद्वैगुण्यमाह— भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथो- क्ताद्दण्डाद् द्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर्भक्षयित्वोपविष्टानां यथोक्तदण्डाच्चतुर्गुणो दण्डो वेदितव्यः । 'वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः' इति वचनात् ॥ क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह— सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ १६० ॥ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः, तदुपघातेऽपीत- रक्षेत्रदण्डेन समं दण्डमेषां महिष्यादीनां विद्यात् । खरश्च उष्ट्रश्च खरोष्ट्रं तन्महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्य- त्वाद्दण्डस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः ॥१६०॥ भाषा—यदि पशु किसी दूसरे की फसल चरकर वहाँ बैठा भी हो तो, भी बताये गये दण्ड का दूना दण्ड होता है । विवीत (बाड़े) में भैंस आदि प्रवेश करे तो पहले के समान ही दण्ड ले । इस संबन्ध में गदहा और ऊँट के लिये भी भैंसे के समान दण्ड होता है ॥ १६० ॥ १. गां तद्विगुणं ।