भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 374, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 374

३१८ याज्ञवल्क्यस्मृतिः इत्यर्थः । द्विजस्तूणेन्धनोभावे गवाग्निदेवतार्य तृणकाष्ठकुसुमानि सर्वतः स्वत्व- दनिवारित आहरेत् । फलानि १स्वपवृतादेव । ‘गोऽग्न्यर्थं तृणमेधांसि वीरुद्वन- स्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम्’ (गौ. १२।२८ ) इति गौतमस्मरणात् । एतच्च परिगृहीतविषयम् । अपरिगृहीते तु द्विजव्यति- रिक्तस्यापि परिग्रहादेव स्वत्वसिद्धेः । यथा तेनैवोक्तम्—‘स्वामी रिक्थक्रय- संविभागपरिग्रहाधिगमेषु’ (गौ. १३।३९) इति । यत्पुनरुक्तम्—‘तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छन्हि गृह्णानो हस्तच्छेदन- मर्हति ॥’ इति, तद्द्विजव्यतिरिक्तविषयमनापद्विषयं वा गवाद्यतिरिक्तविषयं वेति ॥ १६६ ॥ भाषा—गाँव के लोगों की इच्छा से अथवा राजा की आज्ञा से गौओं के चरागाह के लिये भूमि बनानी चाहिए । द्विज जलाने के लिये ईंधन और पुष्प सभी स्थानों से सदा बे रोक टोक ले सकता है ॥ १६६ ॥ इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते— धनुःशतं २परीणाहो ३ग्रामे क्षेत्रान्तरं भवेत् । द्वे शते ४खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ १६७ ॥ ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितं परीणाहः सर्वतोदिशंमनुससस्यं का- र्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शते ५परीणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितमन्तरं कार्यम् ॥ १६७ ॥ भाषा—गाँव के चारों ओर सौ धनु स्थान छोड़े, खर्वट (कस्बे) के चारों ओर दो सौ धनुष और नगर के चारों ओर चार सौ धनुष स्थान छोड़ देना चाहिए ॥ १६७ ॥ इति स्वामिपालविवादप्रकरणम् । अथास्वामिविक्रयप्रकरणम् ११ संप्रत्यस्वामिविक्रयाख्यं व्यवहारपद्मुपक्रमते । तस्य च लक्षणं नारदेनो- क्तम् (७।१)—‘निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयतेऽसमक्षं यत्तज् ज्ञेयोऽस्वामिविक्रयः ॥’ इति, तत्किमित्याह— स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ १६८ ॥ १. स्वपरिवृतादेव । २. परीहारः (= परिहृतं कृष्यादिकं) । ३. ग्राम- क्षेत्रान्तरं । ४. कर्पटस्य ( = ग्रामनगरोभयधर्मयुक्तस्य ) । ५. परि- णाहः । ६. दिशमनुससस्यं ।