याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 373, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३१७ गोस्वामिना प्रातःकाले यथा गणयित्वा समर्पिताः पशवस्तथैव सायं काले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतान्न- ष्टांश्च पशून् कृतवेतनः कल्पितवेतनौ गोपः स्वामिने दाप्यः । वेतनकल्पना च नारदेनोक्ता ( ६।१० )—‘गवां शताद्वत्सतरी धेनुः स्याद् ^१द्विशताद्भृतिः । प्रतिसंवत्सरं गोपे संदोहश्चाष्टमेऽहनि ॥’ इति । प्रमादनाशश्च मनुना स्पष्टी- कृतः ( ८।२३२ )—‘नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुष- कारेण प्रदद्यात्पाल एव तु ॥’ इति ॥ प्रसङ्ग्य चौरैरपहृतं^२ न दाप्यः । यथाऽऽह मनुः ( ८।२३३ )—‘विक्रम्य^३ तु हतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥’ इति । ^४दैवमृतानां पुनः कर्णादि प्रदर्श- नीयम् । ‘कर्णौ चर्म च वालांश्च बस्ति स्नायुं च रोचनाम् । पैंशुषु स्वामिनां दद्यान्मृतेष्वङ्गानि^६ दर्शयन् ॥’ ( ८।२३४ ) इति मनुस्मरणात् ॥ १६४ ॥ भाषा—प्रातःकाल जैसा पशु स्वामी ने गोप ( चरवाहे ) को सौंपा हो वैसा ही ( उतने ही ) पशु सन्ध्या को वह ( गोप ) स्वामी को लौटावे । यदि पशु उसकी असावधानी से मर गया हो या खो गया हो तो स्वामी उसका वेतन ठहरा कर उसमें से उस पशु का मूल्य ले लेवे ॥ १६४ ॥ पालदोषविनाशे तु पाले दण्डो विधीयते । अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ १६५ ॥ किंच, ^८पालदोषेणैव पशुविनाशे अर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश्च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोकः, अन्यत्पूर्वोक्तमेव ॥ १६५ ॥ भाषा—चरवाहे के दोष से पशु का नाश होने पर चरवाहे से साढ़े तेरह पण दण्ड स्वामी को दिलवाये ॥ १६५ ॥ गोप्रसङ्गात् गोप्रचारमाह— ^९ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा । द्विजस्तृणैधःपुष्पाणि ^१०सर्वतः सर्वदा हरेत् ॥ १६६ ॥ ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा गोप्र- चारः कर्तव्यः । गवादीनां ^११प्रचारणार्थं कियानपि भूभागोऽकृष्टः परिकल्पनीय १. द्विशताद्भृतिः । २. अपहतान् । ३. विघुष्य त्विति । ४. दैव- राजमृतानां । ५. पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि । ६. भङ्गादि दर्शयेत् । ७. स्वामिने । ८. दोषेण पशु । ९. ग्रामेष्वच्छया । १०. सर्वतः समुपाहरेत् । ११. चरणार्थं ।