याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 378, कुल 782 में से
संदर्भ में पढ़ें३२२ याज्ञवल्क्यस्मृतिः मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादमाह— पणानेक शफे दद्याच्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ १७४ ॥ एकशफे अश्वादौ प्रनष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान्द- द्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान्, महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणौ, अजाविके पुनः प्रत्येकं पादं पादम् । 'दद्यात्' इति सर्वत्रा- नुषज्यते । अजाविकमिति समासनिर्देशेऽपि 'पादं पादम्' इति वीप्साबला- त्प्रत्येकं संबन्धोऽवगम्यते ॥ १७४ ॥ भाषा—एक खुरवाले घोड़े आदि पशुओं के खो जाने के बाद पुनः मिलने पर चार, खोये हुए मनुष्य के मिलने पर पाँच, भैंस, ऊँट और गाय के मिलने पर दो-दो पण और बकरा तथा भेड़ के मिलने पर चौथाई पण राजा को देवे ॥ १७४ ॥ इत्यस्वामिविक्रयप्रकरणम् । अथ दत्ताप्रदानिकप्रकरणम् १२ अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानापकर्म दत्ताप्रदानिकमिति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदमभिधीयते । तत्स्वरूपं च नारदेनोक्तम् (४।१)—'दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम व्यव- हारपदं हि तत् ॥' इति । असम्यग्विहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरादातु- मिच्छति यस्मिन्विवादपदे तद्दत्ताप्रदानिकम्-दत्तस्याप्रदानं पुनर्हरणं यस्मिन्दा- नाख्ये तद्दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रतिपक्षभूतं तदेव व्यवहारपदं दत्तानापकर्मेत्यर्थादुक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं यत्र दानाख्ये विवादपदे तद्दत्तानपकर्म । तच्च देयादेयादिभेदेन चतुर्विधम् । यथाऽऽह नारदः ( ४।२ )—'अथ देयमदेयं च दत्तं चाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥' इति । तत्र देयमित्यनिषिद्धदानक्रियायोग्यमुच्यते । अदेयमस्वतया निषिद्धतया वा दानानर्हम् । यत्पुनः प्रकृतिस्थेन दत्तमव्यावर्त्त- नीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तत्कथ्यते । तदेतत्संक्षेपतो निरूपयितुमाह— स्वं कुटुम्बाविरोधेन देयं स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन, कुटुम्बभरणावशिष्टमिति यावत् । तद्दद्यात्; तद्भरणास्यावश्यकत्वात् । यथाऽऽह मनुः (११।१०)— १. महिषोष्ट्र । २. दत्तानानपकर्म । ३. व्यवहारपदे । ४. रादानं ।