भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 379, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 379

व्यवहाराध्यायः ३२३ 'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' इति । 'कुटुम्बाविरोधेन' इत्यनेनादेयमेकविधं दर्शयति । 'स्वं दद्यात्' इत्यनेन चास्वभूतानामन्वाहितयाचितकाधिसधारणनिक्षेपाणां पञ्चानाम- प्यदेयत्वं व्यतिरेकतो दर्शितम् ॥ यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम् (४।३-४) —'अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टामु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥' इति, –एतददेयत्वमात्राभिप्रायेण, न पुनः स्वत्वाभावा- भिप्रायेण; पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां स्वरूपं च प्रागेव प्रपञ्चितम् ॥ 'स्वं दद्यात्' इत्यनेन दारसुतादेरपि स्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह- दारसुतादृते । नान्न्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ १७५ ॥ दारसुतादृते दारसुतव्यतिरिक्तं स्वं दद्यात्, न दारसुतमित्यर्थः । तथा पुत्रपौत्राद्यन्वये विद्यमाने सर्वं धनं न दद्यात्; 'पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत्' इति स्मरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमम्यस्मै न देयम् ॥ १७५ ॥ भाषा—दान इतना ही देना चाहिए जिससे अपने कुटुम्ब के भरण- पोषण में कठिनाई न हो । पुत्र और स्त्री दान में न देवे । यदि पुत्र और पौत्र आदि हों तो सब कुछ दान नहीं करना चाहिए ॥ १७५ ॥ एवं दारसुतादिव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाद्देयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशमेव कर्तव्यमित्याह— प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । स्थाव- रस्य च विशेषतः प्रकाशमेव ग्रहणं कार्यम्; तस्य सुवर्णादिवदात्मनि स्थितस्य दर्शयितुमशक्यत्वात् ॥— एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह— देयं प्रतिश्रुतं चैव दत्त्वा नापहरत्पुनः ॥ १७६ ॥ देयं प्रतिश्रुतं चैव—यद्यस्मै धर्मार्थं प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ २धर्मो- ध्वञ्च्युतो न भवति । प्रव्युते न पुनर्दातव्यम्; 'प्रतिश्रुत्याप्यधर्मसंयुक्तस्य न १. नान्न्वये सति सर्वस्वं देयं यच्चान्यसंभ्रितम् । २. धर्मप्रच्युतो । २१ या०