भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 380, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 380

३२४ याज्ञवल्क्यस्मृतिः

दद्यात्' (गौ० ५।२३) इति गौतमस्मरणात् । दत्त्वा नापहरेत्पुनः न्यायमार्गेण यद्दत्तं तत्सप्तविधमपि पुनर्नोपहर्तव्यम्; किंतु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति । नारदेन च (४।२)-'दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम्' इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम्-'पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानु- ग्रहार्थं च दत्तं दानविदो विदुः ॥ अदत्तं तु भयक्रोधशोकवेगरुजान्वितैः । तथो- त्कोचपरीहासव्यत्यासच्छलयोगतः ॥ बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्ये चार्थमं- संहिते । यद्दत्तं स्यादविज्ञानाददत्तमिति तत्स्मृतम् ॥' (ना० ४।८, १९, ११) इति । अयमर्थः—पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तम्, भृतिर्वेतनं कृतकर्मणे दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम्, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम्, प्रत्यु- पकारतः २उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञाति- भ्यो यद्दत्तम्, यच्चानुग्रहार्थमरणार्थं दत्तम्; तदेतत्प्तसप्तविधमपि दत्तमेव न प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम्, क्रोधेन ३पुत्रादिभ्यो वैरनिर्यात- नायान्यस्मै दत्तम्, पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्य- प्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्, परिहासेनोपहासेन दत्तम् । ४एकः स्वं द्रव्यमन्यस्मै ददात्यन्योऽपितस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदान- मभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेना५प्राप्तषोडशवर्षेण, मूढेन लोक६वादानभिज्ञेन, अस्वतन्त्रेण पुत्रदासादिना, आर्तेन रोगाभिभूतेन, मत्तेन मदनीयमत्तेन, उन्मत्तेन वातिकाद्युन्मादग्रस्तेन वा, अपवर्जितं दत्तम्, तथा- 'अयं मदीयमिदं कर्म करिष्यति' इति प्रतिलाभेच्छया दत्तम्, अचतुर्वेदाय 'चतुर्वेदोऽहम्' इत्युक्तवते दत्तम्, 'यज्ञं करिष्यामी'ति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तम्, इत्येवं षोडशप्रकारमपि दत्तमदत्तमित्युच्यते; प्रत्याहरणी- यत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्; 'स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥' इति कात्यायनस्मरणात् ॥ तथैदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ॥ (मनुः ८।१६५)-'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य चाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषे- णाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमे तान् क्रयादीन्विनिवर्तयेदित्य- १. धर्मसंयुते । २. उपकृते । ३. पुत्रादिवैरै । ४. एकोऽपि स्वं द्रव्य । ५. अप्राप्तव्यवहारेण । ६. लोकवेदा । ७. मदीयं कर्म । ८. येनो- पाधि । ९. धिगमे क्रयादीन् ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 380, कुल 782 में से · BharatKosha