याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 381, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३२५ स्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति, यश्चादेयं प्रयच्छति, तयो- र्दण्डो नारदेनोक्तः (८।१६५) - 'गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छक ॥' इति ॥ १७६ ॥ भाषा-दान सबके समक्ष लेना चाहिए और वह भी विशेषतः स्थावर (भूमि आदि) का दान तो सबके सामने लेना चाहिए । जो वस्तु जिसको देने का संकल्प किया हो उसे वह वस्तु अवश्य देवे और देकर पुनः अपहरण न करे ॥ १७६ ॥ इति दत्ताप्रदानिकं नाम प्रकरणम् । अथ क्रीतानुशयप्रकरणम् १३ अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं च नारदेनोक्तम् (९।१) - 'क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥' इति । तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् - 'क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्न्यविक्षतम् ॥ ( ना० ९।२ इति ) । द्वितीयादिदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः-द्वितीयेऽह्नि ददत्क्रेता मूल्यात्त्रिंशांशमाहरेत् । द्विगुणं तु तृती- येऽह्नि परतः क्रेतुरेव तत् ॥' (ना० ९।३) इति ॥ परतोऽनुशयो न कर्तव्य इत्यर्थः । एतच्च बीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ॥ बीजादिक्रये पुनरन्य एव प्रत्यर्पणावधिरित्याह- दशैकपञ्चसप्ताहमासद्व्यर्धमासिकम् । बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ १७७ ॥ बीजं व्रीह्यादिबीजम्, अयो ^३लोहम्, वाह्यो बलीवर्दादिः, रत्नं मुक्ताप्रवा- लादि, स्त्री दासी, दोह्यं ^४महिष्यादि, पुमान् दासः; एषां बीजादीनां यथाक्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यमञ्जयस्त्वबुद्ध्याऽ- नुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिः, न पुनरूर्ध्वमित्युपदेश- प्रयोजनम् । यत्तु मनुवचनम् (८।२२२) - 'क्रीत्वा विक्रीय वा किंचिद्यस्येहानु- शयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत च ॥' इति,-तदुक्तलोहादिव्य- तिरिक्तोपभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतदपरीक्षित- क्रीतविषयम् । यत्पुनः परीक्षितं 'न पुनः प्रत्यर्पणीयम्' इति समयं कृत्वा क्रीतं- १. तस्मिन्नह्नि वीक्षितम् । २. मावहेत् । ३. लोहादि । ४. माहि- ष्यादि । ५. पभोगविनश्वर । ६. परीक्ष्य ।