याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 385, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३२६ सप्तैते दास्योनयः ॥' इति सप्तविधत्वमुक्तं, - तत्तेषां दासत्वप्रतिपादनार्थं, नतु परिसंख्यार्थम् । तत्रैषां शिष्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता । - 'आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्' ( आ० २७) इत्यादिना । अधिकर्मकृद्भृतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते । - 'यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' ( व्य० १९६ ) इत्यादिना ॥ दासान्तेवासिनोस्तु धर्मविशेषं वक्तुमाह- बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो <sup>३</sup>भक्तत्यागान्निरुष्क्रयादपि ॥ १८२ ॥ बलात् बलावष्टम्भेन यो दासीकृतः, यश्चौरैरपहृत्य विक्रीतः, 'अपि'शब्दा- द्दाहितो दत्तश्च; स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तं च नारदेन ( ५।३८ ) - 'चैौरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोचयितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति । चौरव्याघ्राद्यवरुद्धस्य स्वामिनः प्राणान्यः प्रददाति रक्षत्यसावपि मोचयितव्यः । तदिदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम् । - 'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥' ( ५।३० ) इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्विकमपि मोक्षकारणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागाद्दासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयात् यद्गृहीत्वा स्वामिना आहितः, यच्च दत्त्वा धनिनोत्तमर्णान्मोचितः, तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणात्मुच्यते । नारदेन विशेषोऽप्युक्तः-'अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं यद्दुर्भिक्षे न तच्छुद्ध्येत कर्मणा ॥' 'भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते ।', 'आहितेऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥', 'ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्रमुच्यते ( ना० ५।३१, ३६, ३२, ३३ ) ॥' इति ॥ तथा 'तवाहम्' इत्युपगतयुद्धप्राप्तपणजितकृतकवडवाहतानां <sup>६</sup>च प्रातिस्विकं मोचनकारणं च <sup>७</sup>तेनैवोक्तम्- 'तवाह मित्यूपगतो युद्धप्राप्तः पणे जितः । 'प्रतिशीर्षप्रदानेन मुच्येर्ँस्तुल्यकर्मणा ॥', 'कृतकालव्यपगमात्कृतकोऽपि विमुच्यते ।', 'निग्रहाद्ब- डवायास्तु मुच्यते वडवाहृतः ॥' ( ना० ५।३४, ३३, ३७ ) इति । दासेन सह संभोगनिरोधादित्यर्थः । तदेवं गृहजातकीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्रा- णप्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति; विशेषकारणानभि-
३. प्रतिपादनपरम् । ४. भक्तस्त्यागात्त । भाक्तस्त्यागान्निरुष्क्रयादपि ( = भाक्तः भक्तदासः ) । ५. मोचनीयः । ६. कृतवडवा । ७. नारदेनैव । ८. प्रदानात्तत्समाद् ।