याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 386, कुल 782 में से
संदर्भ में पढ़ें३३० याज्ञवल्क्यस्मृतिः धानात् । दासमोक्षश्चानेन क्रमेण कर्तव्यः—'स्वं दासमिच्छेद्यः कर्तुमदासं शीतमानसः । स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिर्मूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा त्रिः प्राङ्मुखं तमवासृजेत् ॥' ( ना० ५।४२, ४३ ) इति तेनैवोक्तम् ॥ १८२ ॥ भाषा—बलपूर्वक बनाया गया और चोरों द्वारा बेचा गया दास स्वामी का प्राण बचाने पर, स्वामी के खाये हुए धन को लौटाने पर अथवा निष्क्रय का मूल्य चुका देने पर (दासता से) मुक्त हो जाता है ॥ १८२ ॥ प्रव्रज्यावसितस्य तु मोक्षो नास्तीत्याह— प्रव्रज्यावसितो राज्ञो दास १आमरणांतिकम् । प्रव्रज्या संन्यासः, ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चेद्राज्ञ एव दासो भवति । मरणमेव २तद्दासत्वस्यान्तो नान्तरा प्रतिमोक्षोऽस्ति ॥- वर्णापेक्षया दास्यव्यवस्थामाह— वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ १८३ ॥ ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम्-ब्राह्मणस्य क्षत्रियादयः, क्षत्रियस्य वैश्यशूद्रौ, वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति, न प्रतिलोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव; यथाह नारदः ( ५।३९ )—'वर्णानां प्रतिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता ॥' इति ॥ १८३ ॥ भाषा—संन्यास से च्युत व्यक्ति जीवन भर राजा का दास होकर रहता है । दास्य भाव वर्णों के आनुलोम्य से ही होता है अर्थात् अपने से निम्नवर्ण का ही दास होता है । प्रातिलोम्य नहीं होता (निम्नवर्ण के व्यक्ति का दास उससे उच्चवर्ण वाला नहीं होता ) ॥ १८३ ॥ अन्तेवासिधर्मानाह— कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥ १८४ ॥ अन्तेवासी गुरोर्गृहे कृतकालं 'वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थं त्वद्गृहे वसामि' इति यावदङ्गीकृतं तावत्कालं वसेत् ,-यद्यपि वर्षचतुष्टयादर्वागेव लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् ? गुरुप्राप्तभोजनः गुरोः सकाशात्प्राप्तं भोजनं येन स तथोक्तः, तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति १. मरणान्तिकः । २. स्यान्तो नान्तरा प्रतिमोक्षोऽस्ति । ३. भोजनं तत्फलप्रदः ।