याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 394, कुल 782 में से
संदर्भ में पढ़ें३३८ | याज्ञवल्क्यस्मृतिः तत्र द्यूतसभाधिकारिणो वृत्तिमाह— ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद् धूर्तकितवादितराद्दशकं शतम् ॥ १९९ ॥ परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धियंस्यासौ शतिकवृद्धिः, तस्माद् धूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । पञ्च पणा आयो यस्मिन् शते तत् पञ्चकं शतम् । 'तदस्मिन्वृद्धयायलाभ—' (पा० ५।१।- ४७) इत्यादिना कन् । जितग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थः । सभा- कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पिताष्टादिनिखिलक्रीडोपरणस्त- दुपचितद्रव्योपजीवी सभापतिरुच्यते । इतरस्मात्पुनरपि पूर्णशतिकवृद्धेः कितवा- दशकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् ॥ १९९ ॥ भाषा—जुआ के खेल में धूर्त जुआरी (जीतने वाले) के धन में पाँच प्रतिशत सभिक (जुवा चलाने वाला) लेवे और दूसरों से दस प्रतिशत वसूल करे ॥ १९९ ॥ एवं क्लृप्तवृत्तिना सभिकेन किं कर्तव्यमित्याह— स सम्यक्पालितो १दद्याद्राज्ञे भागं यथाकृतम् । जितंमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ॥ य एवं क्लृप्तवृत्तिर्द्यूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् ; तथा ३जितं यद् द्रव्यं तदुद्ग्राहयेत् बन्धकग्रहणेना- सेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तदुक्तं नारदेन (१६।२) - 'सभिकः कारयेद् द्यूतं देयं दद्याच्च तत्कृतम्' इति ॥२००॥ भाषा-वह सभिक राजा द्वारा संरक्षित होने पर उसे यथोचित अंश प्रदान करे और जीतने वाले को जीता हुआ धन दिलावे तथा क्षमाशील होकर दूसरे द्यूतकरों के विश्वास के लिये सत्य वचन देवे ॥ २०० ॥ यदा पुनः सभिको दापयितुं न शक्नोति, तदा राजा दापयेदित्याह— प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा नै तु ॥ २०१ ॥ १. भागं राज्ञे दद्याद्यथाश्रुतम् । २. जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यवचाः क्षमी । ३ जितं द्रव्यमुद्ग्राहयेत् । ४. प्राप्ते भागे च नृपतिः । ५. तु न ।