याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 395, कुल 782 में से
संदर्भ में पढ़ेंप्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवस- माजे सभिकेन च राजभागे दत्ते राजा धूर्त्तकितवमविप्रतिपन्नं जितं पणं दाप- येत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे 'द्यूते जितपणं जेत्रे न दापयेत् ॥ २०१ ॥ भाषा—राजा ( सभिक से ) अपना अंश प्राप्त करने पर ज्ञात ( गुप्त नहीं अपितु राजा द्वारा संरक्षित ) द्यूतकरों के मण्डल में सभिक के निरीक्षण में जीता हुआ धन जीतने वाले को दिलावे अन्यथा ( संरक्षित द्यूतकरमण्डल न होने पर ) न दिलावे ॥ २०१ ॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह— द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । द्यूतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः; न तत्र 'श्रुताध्ययनसंपन्ना' ( व्य० २ ) इत्यादिनियमोऽस्ति । साक्षिणश्च द्यूते द्यूतकरा एव कार्याः न तत्र 'स्त्रीबालवृद्धकितव-' ( व्य० ७० ) इत्यादि- निषेधोऽस्ति ॥— क्वचिद्द्यूतं निषेद्धुं दण्डमाह— राज्ञा संचिह्नं निर्वास्याः कूटक्षोपधिक्षेविनः ॥ २०२ ॥ कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्राद्निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः ( १६।६ )—'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥' इति । यानि च मनुवचनानि द्यूतनिषेधपराणि ( मनुः ९।२२४ )—'द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि, तान्यपि कूटा- क्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥ भाषा—जुए के व्यवहार को देखने वाले एवं साक्षी वे ही ( द्यूतकर ही) होते हैं। कपटपूर्वक ( मणि, मंत्र, औषध आदि से ) जुआ खेलने वाले को कुत्ते के पंजे आदि चिह्न से दागकर राज्य से निर्वासित कर देवे ॥ २०२ ॥ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् । किंच, यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् , राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः; तस्करज्ञानकारणात् । १. द्यूते पणं जेत्रे । २. सचिह्ना । २२ या०