याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 396, कुल 782 में से
संदर्भ में पढ़ें३४० याज्ञवल्क्यस्मृतिः तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायश्चौर्यार्जितधना एव कितवा भवन्ति, अतश्चौरविज्ञानार्थमेकमुखं कार्यम् ॥- द्यूतधर्मं समाह्वयेऽतिदिशन्नाह- एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ २०३ ॥ 'ग्लहे शतिकवृद्धेः' ( व्य० १९९ ) इत्यादिना यो द्यूतधर्म उक्तः, स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसंज्ञके ज्ञातव्यः ॥ २०३ ॥ भाषा-चोरों के पहिचान के लिये एक व्यक्ति को द्यूत का प्रधान (अध्यक्ष) नियुक्त कर देना चाहिए । प्राणिद्यूत (पहलवान, भेंड़ा, भैंसा आदि को लड़ाकर खेले जाने वाले जुए) में भी ये नियम समझने चाहिए ॥ इति द्यूतसमाह्वयाख्यं प्रकरणम् । अथ वाक्पारुष्यप्रकरणम् १८ इदानीं वाक्पारुष्यं प्रस्तूयते; तल्लक्षणं चोक्तं नारदेन ( १५।१)-'देश- जातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥' इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः, न्यङ्गमवद्यं तदु- भययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र 'कलह- प्रियाः खलु गौडाः' इति देशाक्रोशः । 'नितान्तं लोलुपाः खलु विप्राः' इति जात्याक्रोशः । 'क्रूरचरिता ननु वैश्वामित्राः' इति कुलाक्षेपः । आदिग्रहणात्स्व- विद्याशिल्पादिनिन्दया विद्वच्छिल्पादिपुरुषाक्षेपो गृह्यते । तस्य च दण्डतारत- म्यार्थं निष्ठुरादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैवोक्तम् ( १५।२)- 'निष्ठुरार्लीकतीव्रत्वादपि तत्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद् गुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपक्रोशै- स्तीव्रामाहुर्मनीषिणः ॥' इति । तत्र ^३धिङ्मूर्खं जाल्ममित्यादि साक्षेपम् । अत्र म्यङ्गमित्यसभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्या- दिमहापातकाद्याक्रोशैर्युकं वचस्तीव्रम् ॥ तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह- सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्ध^४त्रयोदशान् ॥ २०४ ॥ न्यूनाङ्गाः करचरणादिविकलाः, न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः, रोगिणो दुश्चर्मप्रभृतयः, तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । १. खलु लोलुपाः । २. शिल्पादि । ३. धिङ्मूर्ख जाल्मस्त्वमित्यादि । ४. त्रयोदश ।