याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 398, कुल 782 में से
संदर्भ में पढ़ें१४२ याज्ञवल्क्यस्मृतिः वर्णा ब्राह्मणादयः, जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः उत्तराश्च अधराश्च उत्तराधराः, वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधराः, तैः वर्णजात्युत्तराधरैः परस्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूह्यं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति १विशेषेणोपादानादुत्तरा- धरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादु- त्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणदण्डात्किंचिदधिकं पञ्च- सप्तत्यात्मकं दण्डमर्हति, क्षत्रियोऽपि तमाक्रुश्य ब्राह्मणाक्षेपनिमित्ताच्छ्रुतदण्डो- दूनं पञ्चसप्ततिमेव दण्डमर्हति । मूर्धावसिक्तोऽपि तावाक्रुश्य तमेव दण्डमर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथा- क्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६ ॥ भाषा—हीन वर्ण की स्त्रियों के विषय में ऐसी गाली देने पर उपरोक्त दण्ड आधा होता है और उत्तम वर्ण की परस्त्री के लिये कहने पर दूना होता है । इसी प्रकार वर्ण और जाति की उच्चता एवं निम्नता का विचार करके दण्ड देना चाहिए ॥ २०६ ॥ एवं संवर्णविषये दण्डमभिधाय वर्णानामेव प्रतिलोमानुलोमाक्षेपे दण्डमाह— प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥ २०७ ॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादाः, तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याद् द्विगुणपदोपात्तपञ्चाश- त्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति; यथाह मनुः ( ८।२६७ ) —‘शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥’ इति; विट्शूद्रयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शतमध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद्- ब्राह्मणाक्रोशनिमित्ताच्छ्रुतपरिमितात्क्षत्रियदण्डात्प्रतिवर्णमर्धस्यार्धस्य हानिं कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८।२६८)—‘पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । ७वैश्ये १. विशेषोपादानात् । २. दण्डाद्धीनं । ३. सर्ववर्णं । ४. प्रतिलोमा- पवादेषु । ५. वर्णान्त्याच्चानुलोम्येन तस्मादेवार्धहानतः । ६. पञ्चविंशत्यर्धं द्वादश । ७. वैश्यस्य चार्धपञ्चाशत ।