याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 402, कुल 782 में से
संदर्भ में पढ़ें३४६ याज्ञवल्क्यस्मृतिः समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च। हीनेष्वर्धदमो' मोहमदादिभिरदण्डनम् ॥ २१४ ॥ भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दशपणं दण्डं दाप्यः । अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविट्दूषिकाभुक्कोच्छिष्टादिकं च गृह्यते । पार्ष्णिः पादस्य पश्चिमो भागः, निष्छ्यूतं मुखनिःसारितं जलम्, तैः स्पर्शने ततः पूर्वाद्दश- पणाद् द्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः- 'छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥' इति । 'आद्य'ग्रहणाद्वसाशुक्रासृग्मज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाविशेषेण' । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वोक्ताद्दशपणाद्विंशतिपणाच्च दण्डाद् द्विगुणो दण्डो वेदितव्यः । हीनेषु स्वापेक्षया ^२न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् , मदो मद्यपानजन्योऽवस्थाविशेषः । 'आदि'ग्रहणाद् ग्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः ॥ २१३-२१४ ॥ भाषा-भस्म, कीचड़ और धूल फेंकने पर दस पण का दण्ड होता है अमेध्य ( शरीर के विकार और जूठा भोजन ) फेंकने पर एड़ो से मारने पर और थूक फेंकने पर उससे दूना अर्थात् बीस पण दण्ड होता है। ये दण्ड समान वर्ण के व्यक्ति पर भस्म आदि फेंकने पर ही होते हैं। परस्त्री और उत्तम जाति के व्यक्ति को भस्मादि फेंककर पीड़ित करने पर दूना दण्ड होता है और अपनी अपेक्षा निम्नतर वर्ण एवं वृत्ति वाले को इस प्रकार पीड़ित करने पर आधा दण्ड होता है। मोह (भूल) और मदपान के कारण ऐसा अपराध करें तो दण्ड का भागी नहीं होता ॥ २१३-२१४ ॥ प्रातिलोम्यापराधे दण्डमाह- विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु। उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २१५ ॥ ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव। (मनुः ८।२७९)- 'येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः। छेत्तव्यं तत्तदेवाश्य तन्मनोरनु- शासनम् ॥' इति । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि १. दमः प्रोक्तो मदादिभिः । २. न्यूनश्रुतादिषु । ३. च्छेद्यमङ्ग- मन्त्यजः-मनुः।