याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 401, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३४५ पारुष्याणीत्यर्थः । तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोः- यः क्षमते न केवलं तस्य दण्डाभावः, किंतु पूज्य एव । तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा तयोर्द्वयोर- पराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिणः, तेषामशक्यत्वे तान् राजा घातयेदेव; नार्थं गृह्णीया- दित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ताः ( ना० १५।७ )—'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयोः ॥ स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते । पूर्वमाचारयेद्यस्तु नियतं स्यात्स दोषभाक् ॥ पश्चाच्चः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ॥ स तयोर्दण्डमाप्नोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोर्युगपत्संप्र- वृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डाल- व्यङ्गेषु वधवृत्तिषु ॥ हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च । मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं १कुर्यान्नूनं विनयभाङ्नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अत- स्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' ( १५।९, १०, ११-१४ ) इति ॥ एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वादण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णय- हेतुमाह— २असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो ३ भयात् ॥ २१२ ॥ यदा कश्चित् 'रहस्यहरनेन हतः' इति राज्ञे निवेदयति, तदा ४चिह्नैर्वा- दिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्र- वादेन 'च'शब्दाद्दिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या ॥ २१२ ॥ भाषा—जो विना साक्षी उपस्थित किये हुए किसी पर एकान्त में मारने पीटने का अभियोग लगाता है तो चिह्नों, युक्ति ( कारण, प्रयोजन और पर्यालोचन ) और आगम द्वारा उसकी परीक्षा करे; कारण झूठे ( चोट के ) चिह्न बना लेने की भी शंका रहती है ॥ २१२ ॥ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह— भस्मपङ्करजःस्पर्शो दण्डो दशपणः स्मृतः । अमेध्यपाणिंनिष्ठ्यूतस्पर्शने द्विगुणस्ततः ॥ २१३ ॥ १. कुर्यान्न तद्विनयभाक् । २. असाक्षिके हते । ३. कृताहते । कृताङ्गवात् । ४. चिह्नैर्मर्गादि । ५. द्विगुणः स्मृतः ।