याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 400, कुल 782 में से
संदर्भ में पढ़ें३४४ याज्ञवल्क्यस्मृतिः पातित्यहेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दण्डः। उपपातकेसंयुक्ते पुनः 'गोघ्नस्त्वमसि' इत्येवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २१० ॥ भाषा—जो ऐसा (ब्रह्महत्यादि) मिथ्या आरोप लगावे जिससे पतित होने की संभावना हो तो मध्यम साहस का दण्ड और उपपातक (गोवध आदि का दोष) लगाने पर प्रथम (अधम) साहस का दण्ड देना चाहिए ॥ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २११ ॥ किंच, त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यम- साहसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥२११॥ भाषा—तीनों वेदों के विद्वानों राजा और देवताओं पर आक्षेप करने से उत्तम साहस का दण्ड होता है । जाति, पूग (संघ) के आक्षेप में मध्यम साहस का और ग्राम तथा देश के आक्षेप में प्रथम साहस का दण्ड होता है ॥ २११ ॥ इति वाक्पारुष्यं नाम विवादपदप्रकरणम् । अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते, तत्स्वरूपं च नारदेनोक्तम् (१५।४)—'परगा- त्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति। परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणाद् ग्रावादिभिर्यो- ऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद्रजः पङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽनेनेति दण्डो देयः, तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेर्द्रव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्मत्रैविध्या- त्पुनस्त्रैविध्यं तेनैवोक्तम् (१५।५-६)—'तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःसङ्गापातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां समति- क्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' इति । निःसङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्ड- १. वर्णानामाक्षेपे ।- २. संबन्धे तु । ३. जातिरूपाणां । ४. करण- भेदेन । ५. तस्योपहतं । ६. निःशङ्कपातन ।