भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 404, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 404

[३४८] याज्ञवल्क्यस्मृतिः

शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ २१८ ॥

किंच । यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्ठलोष्टादिभिः करोत्यसौ द्वात्रिंशतं पणान्दण्ड्यः ॥ यदा पुनर्गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान्दण्डनीयः । ३त्वङ्मांसास्थिभेदे पुनर्विशेषो मनुना दर्शितः ( ८।२८४ )—'त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता च षण्णिष्कान्प्रवास्यस्त्वस्थिभेदकः ॥' इति ॥ २१८ ॥

भाषा—यदि कोई व्यक्ति लकड़ी आदि से मार कर बिना रुधिर निकाले दुःख पहुँचाता है तो बत्तीस पण दण्ड होता है और रुधिर दिखाई पड़ने पर उसके दूना दण्ड होता है ॥ २१८ ॥

करपाददंतो भङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २१९ ॥

किंच, करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढव्रण- स्योद्भेदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २१९ ॥

भाषा—हाथ, पैर, और दाँत तोड़ने पर, कान और नाक काटने पर, फोड़ा कुचल देने पर तथा मारते-मारते अधमरा कर देने पर मध्यमसाहस का दण्ड होता है ॥ २१९ ॥

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थीनां च भङ्गे मध्यमसाहसः ॥ २२० ॥

किंच, गमनभोजनभाषणनिरोधे नेत्रस्य 'आदि' ग्रहणाज्जिह्वायाश्च प्रति- भेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस्तेषां प्रत्येकं भञ्जने मध्य- मसाहसो दण्डः ॥ २२० ॥

भाषा—चलना, भोजन और बोलना रोक देनेपर, आँख आदि ( जिह्वा भी ) फोड़ने या काटने पर, ग्रीवा, बाँह और जंघा तोड़ने पर मध्यमसाहस का दण्ड होता है ॥ २२० ॥

एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः । अपि च, यदा पुनर्बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति, तदा यस्मिन्यस्मिन् अपराधे यो यो दण्ड उक्तस्तत्र तस्माद् द्विगुणो दण्डः प्रत्येकं


१. पीडां । २. पणान्दाप्यो । ३. मांसास्थिविभेदे । ४. दन्तभङ्गे । ५. सक्थ्वद्विग्भङ्गे । ६. उत्तमसाहसः ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 404, कुल 782 में से · BharatKosha