याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 422, कुल 782 में से
संदर्भ में पढ़ें३६६ याज्ञवल्क्यस्मृतिः देशान्तरमृतवणिग्रिक्थं प्रत्याह— देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥ २६४ ॥ यदा संभूयकारिणां मध्ये यः कश्चिद्देशान्तरगतो मृतस्तदा तदीयमंशं दायादाः पुत्राद्यपत्यवर्गाः, बान्धवाः मातृपक्षा मातुलाद्याः, ज्ञातयोऽपत्यवर्ग- व्यतिरिक्ताः सपिण्डा वा, आगताः संभूय व्यवहारिणो ये देशान्तरादागतास्ते वा गृह्णीयुः । तैर्विना दायादाद्यभावे राजा गृह्णीयात् । ‘वा’शब्देन च दायादा- दीनां वैकल्पिकमधिकारं दर्शयति । पौर्वापर्यंनियमस्तु ‘पत्नी दुहितर’ ( व्य० १३५ ) इत्यादिना प्रतिपादित एवात्रापि १वेदितव्यः । शिष्यसब्रह्म- चारिबाह्मणनिषेधो वणिक्प्राप्तिश्च वचनप्रयोजनम् । वणिजामपि मध्ये यः पिण्ड- दानर्णदानादिसमर्थः स गृह्णीयात् । सामर्थ्यविशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेषामप्यभावे दशवर्षं दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयमेव राजा गृह्णीयात् । तदिदं नारदेन स्पष्टीकृतम् ‘एकस्य चेत्स्यान्मरणं दायादोऽस्य तदाप्नुयात् । अन्यो वाऽसति दायादे शक्ताश्चेत्सर्व एव ते ॥ तद्- भावे तु गुप्तं २तत्कारयेद्दशवत्सरान् । अस्स्वामिकमदायादं दशवर्षस्थितं ततः ॥ राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते ॥’ इति ॥ २६४ ॥ भाषा—एक साथ मिलकर व्यापार करने वालों में यदि कोई साझेदार विदेश चला जाय या मर जाय तो उसका अंशभूत द्रव्य उसके पुत्रादि दायाद, बान्धव या जातिवाले प्राप्त करें, अथवा देशान्तर से लौटकर वे सभी व्यापारी ले लें या उनके न होने पर राजा (उसका धन) ग्रहण करे ॥ २६४ ॥ जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् । किं च, जिह्यो वञ्चकः तं निर्लाभं निर्गतलाभं लाभमाच्छिद्य त्यजेयुर्बहि- ष्कुर्युः । यश्च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुमसमर्थोऽसावन्येन स्वकं कर्म भाण्डभारवाहनतदायव्ययपरीक्षणादिकं कारयेत् ॥— प्रागुपदिष्टं वणिग्धर्ममृत्विगादिष्वतिदिशति— अनेन विधिरख्यात ऋत्विक्कर्षककर्मिणाम् ॥ २६५ ॥ अनेनं ‘लाभालाभौ यथाद्रव्यम् इत्यादिवाणग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तकतक्षादीनां च शिल्पकर्मोपजीविनां विधिवर्तनप्रकार आख्यातः । तत्र च ऋत्विजां धनविभागे विशेषो मनुना दर्शितः (८।२१०)— १. विज्ञेयः । २. तद्धारयेत् ।