भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 436, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 436

३८० याज्ञवल्क्यस्मृतिः उच्च जाति का कन्या का अपहरण करने वाले पुरुष का वध कर देना चाहिए ॥ २८७ ॥ आनुलोम्यापहरणे दण्डमाह— सकामास्वनुलोमासु न दोषस्त्वन्यथो दमः । यदि सानुरागां हीनवर्णां कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्यथा . स्वनिच्छन्तीमपहरतः प्रथमसाहसो दण्डः ॥ कन्यादूषणे दण्डमाह— दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २८८ ॥ 'अनुलोमासु' इत्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करश्छेत्तव्यः । यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन्दूषयति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः । 'अभिसह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥' ( मनुः ८।३६७ ) —इति । यदा पुनः सानुरागां पूर्ववद्दूषयति तदाऽपि तेनैव विशेष उक्तः ( मनुः ८।३६८ )—'सकामा दूषयंन्कन्यां नाङ्गुलिच्छेदामर्हति । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ।' इति । यदा तु कन्यैव कन्यां दूषयति, विदग्धा वा, तत्रापि विशेषस्तेनैवोक्तः । 'कन्यैव कन्यां या कुर्यात्तस्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव वा च्छेदं खरेणोद्वहनं तथा ॥' ( मनुः ८।३६९)—इति । 'कन्यां कुर्यात्' इति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः ॥ तदा पुनरुत्कृष्टजातीयां कन्यामवि- शेषा³त्सकामासकामाम् वाऽभिगच्छति तदा हीनस्य क्षत्रियादेर्वध एव; 'उत्तमां सेवमानस्तु जघन्यो वधमर्हति' ( ८।३६६)—इति मनुस्मरणात् ॥ यदा सवर्णां सकामामभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् , यदिच्छति; पितरि तु शुल्कमनिच्छति दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णांमकामां तु गच्छतो वध एव; यथाह मनुः ( ८।३६६)—'शुल्कं दद्यात्सेवमानः समामि- च्छेत्पिता यदि' ( ८।३६४)—'योऽकामा दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्लो न वधं प्राप्नुयान्नरः ॥' इति ॥ २८८ ॥ भाषा—कन्या का भी प्रेम होने पर और उसके ( पुरुष से ) निम्न जाति की होने पर दोष नहीं होता, अन्यथा ( कन्या का प्रेम न होने पर ) प्रथम साहस का दण्ड होता है; यदि ऐसी ( अर्थात् अपने से हीन जाति की १. स्त्वन्यथाऽधमः ( = प्रथमसाहसः) । २. दूषयंस्तुल्यो । ३. विशेषा- त्सरागामकामां ।