याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 435, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३७९ इति मनुस्मरणात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णां स्त्रियं व्रजतो लिङ्गच्छेदनसर्व- स्वापहारौ; गुप्तां तु व्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् । (मनुः ८।३७४ ) - 'शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अंगुसमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥' इति । नार्याः पुनर्हीनवर्णं व्रजन्त्याः कर्णयोः, 'आदि'ग्रहणात्रा- सादेश्च कर्तनम् । आनुलोम्येन वा सवर्णं वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव, तस्यैव पालनाधिकारात्न द्विजातिमात्रस्य । तस्य 'ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का तदा स्वयमेव जारादीन्हन्यात् । (मनुः ८।३४८ )- 'शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते' । तथा (मनुः ८।३५१ ) - 'नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥' इति शस्त्रग्रहणमभ्यनुज्ञानाच्च । तथा क्षत्रियवैश्ययो- रन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्र-पञ्चशतपणत्मकौ दण्डौ वेदितव्यौ । तदाह मनुः ( ८।३८२ ) - 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥' इति ॥ २८६ ॥ भाषा-सजातीय परायी स्त्री से व्यभिचार करने पर उत्तम साहस का, वर्ण की अनुलोमता होने पर अर्थात् अपने से छोटी जाति का स्त्री से व्यभिचार करने पर मध्यम साहस का दण्ड होता है। वर्ण की प्रतिलोमता पर (अपने से उच्च जाति की स्त्री के साथ व्यभिचार करने पर) दोषी पुरुष का वध कर देना चाहिए और (अपने से नीच वर्ण के पुरुष के साथ व्यभिचार- रत) स्त्रियों का कान आदि काट लेना चाहिए ॥ २८६ ॥ पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाह- अलंकृतां हरेत्कन्यामुत्तमं ³ह्यन्यथाऽधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २८७ ॥ विवाहाभिमुखीभूतामलंकृतां सवर्णां कन्यामपहरन्नुत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णां हरन्प्रथमसाहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः क्षत्रियादेर्वध एव । दण्डविधानाच्चापहर्तृसकाशादाच्छिद्यान्यस्मै देयेति गम्यते ॥ २८७ ॥ भाषा-जिस का विवाह होने वाला हो उस आभूषणों से युक्त सवर्णा कन्या का अपहरण करने वाले को उत्तम साहस का दण्ड होता है; अन्यथा (ब्याही जाने वाली कन्या न होने पर) अधम साहस का दण्ड होता है; १. अगुरुमैकाङ्गसर्वस्वैः । २. हरेत्कन्य्याम् । ३. त्वन्यथाऽधमम । ४. सवर्णां तु प्राति ।