याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 434, कुल 782 में से
संदर्भ में पढ़ें३७८ याज्ञवल्क्यस्मृतिः प्रतिषिद्धयोः स्त्रीपुंसयोः पुनः सँल्लापादिकरणे दण्डमाह— स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहरणे तथा ॥ २८५ ॥ प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभापणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहरणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच्च चारणादिभार्याव्यति- रेकेण । 'नैष चारणदारेषु विधिर्नात्मोपजीविषु । सञ्जयन्ति हि ते नारीं निगूढाश्चारयन्ति च ॥ ( ८।३६२ )—इति मनुस्मरणात् ॥ २८५ ॥ भाषा—पति, पिता भाई आदि ने जिस पुरुष के साथ बोलने के लिये मना किया हो उससे बोलने पर स्त्री सौ पण और इसी प्रकार का निषेध किये जाने पर भी किसी स्त्री से बोलने या संबन्ध रखने वाले पुरुष से दो सौ दण्ड दे । दोनों को वर्जित किया गया हो तो उन्हें वही दण्ड होता है जो उपर्युक्त संग्रहण आदि में होता है ॥ २८५ ॥ तमिदानीं संग्रहरणे दण्डमाह— सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २८६ ॥ चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपण- सहस्रं दण्डनीयः । यदा त्वानुलोम्येन हीनवर्णां स्त्रियमगुप्तामभिगच्छति, तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः ( ८।३७८-३८३ )—'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥' तथा— 'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः सहस्रं तु भवेद्दमः ॥' इति ॥ एतच्च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् ।—'माता मातृष्वसा श्वश्रूमातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्यो- त्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' ( १२।७३—७५ ) इति नारदस्मर- णात् । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ता- विषयम् ; अन्यत्र तु धनदण्डः । 'उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणीं यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥' ( ८।३७६।३७७ )