याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 433, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३७७ संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानस्य तज्ज्ञानोपायं तावदाह— पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । सद्यो वा कामजैश्चिह्नः प्रतिपत्तौ द्वयोस्तथा ॥ २८३ ॥ संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः । परस्पर- केशग्रहणपूर्विका क्रीडा केशाकेशि । 'तत्र तेनेदम्' (पा. २।२।२७) इति सरूपे' इति बहुव्रीहौ सति—'इच् कर्मव्यतिहारे' (पा. ५।४।१२७) इति समासान्त इच् प्रत्ययः । अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चायमर्थः—परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । 'परस्त्री'ग्रहणं नियुक्तावरुद्धादिब्युदा- सार्थम् ॥ २८३ ॥ भाषा—पराई स्त्री का केश पकड़ कर क्रीडा करने से, तत्काल काम- क्रीडा द्वारा बनाये गये (नखक्षत आदि) चिह्नों से अथवा दोनों की परस्पर प्रकट प्रीति देखकर (व्यभिचार में) प्रवृत्त पुरुष को पकड़े ॥ २८३ ॥ नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकालसंभाषं सहैकासनमेव च ॥ २८४ ॥ किंच, यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वाऽन्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः, सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच्चाशङ्क्यमानदोषपुरुषविषयम्, इतरस्य तु न दोषः । यथाऽऽह मनुः (८।३५५)—'यस्त्वेवमनावारितः पूर्वमभिभाषेत कार- णात् । न दोषं प्राप्नुयात्किञ्चिन्नहि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् (८।३५८)—स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं विदग्धाऽसकृद्रमितचरीति श्लाघया भुजंगजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् । 'दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । पूर्वं मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ॥' (ना० १२।६९) इति ॥ २८४ ॥ भाषा—(पराई स्त्री का) नीवी, चोली या आँचल, जाँघ और केश कामुकता पूर्वक छूने, अनुचित स्थान (एकान्त, भीड़ या अँधेरे) में और अयुक्त समय पर (जैसे रात्रि को) भाषण करने और एक साथ एक आसन पर बैठने वाले पुरुष को पकड़े ॥ २८४ ॥ १. परस्त्रियाः । २. सहैकस्थानमेव ।