भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 432, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 432

३७६ याज्ञवल्क्यस्मृति कथं प्रष्टव्या इत्यत आह— स्त्रीद्रव्यवृत्तिकामो वा केन वाऽयं गतः सह । मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ॥ २८१ ॥ 'किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा?' तथा 'कस्यां किंवा संबन्धिन्यां वा स्त्रियामस्य रतिरासीत् ?', 'कस्मिन् वा द्रव्ये प्रीतिः ?', 'कुतो वा वृत्तिकामः?', 'केन वा सह देशान्तरं गतः?' इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथ- क्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर्हन्तारं निश्चित्य तदुचितो दण्डो विधातव्यः ॥ २८१ ॥ भाषा—यह स्त्री, धन, या वृत्ति किस की अभिलाषा रखता था अथवा किस के साथ गया था, इस प्रकार मृत्यु स्थान के निकटवर्ती मनुष्यों से विश्वास दिलाकर पूछना चाहिए ॥ २८१ ॥ क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २८२ ॥ किंच, क्षेत्रं पक्वफलसस्योपेतम् , वेश्म गृहम् , वनमटवीं क्रीडावनं वा, ग्रामम्, विवीतमुक्तलक्षणम् , खलं वा ये दहन्ति, ये च राजपत्नीमभिगच्छन्ति तान्सर्वान्न कटैर्वैरणैर्गमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्ड- विधानम् ॥ २८२ ॥ भाषा—किसी दूसरे के खेत, (पकी फसल), घर, वन, (वाटिका) गाँव, बाड़ा और खलिहान को जलाने वाले तथा राजपत्नी के साथ व्यभिचार करने वाले को कट (सरहरी) में लपेटवाकर जला देना चाहिए ॥ २८२ ॥ इति स्तेयप्रकरणम् । अथ स्त्रीसंग्रहणप्रकरणम् २४ स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिवण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् — 'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदे- शकालभाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम्॥ प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चान्नपानैर्मध्यमं साहसं स्मृतम् ॥ सहासनं विविक्ते तु परस्परमुपाश्रयः केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोर्मिथुनीभावः संग्रहणाम् ॥ १. तत्प्रदेश । २. संभावा निर्जने । ३. समुदाहृतम् । ४. मपाश्रयः ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 432, कुल 782 में से · BharatKosha