याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 444, कुल 782 में से
संदर्भ में पढ़ें३८८ याज्ञवल्क्यस्मृतिः प्राणभृत्सु महस्त्वर्धं गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु दण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥' इति ॥ ३०० ॥ भाषा—दाँत वाले (हाथी आदि) और सींग वाले (बैल आदि) पशुओं का स्वामी यदि समर्थ होते हुए भी इनके आक्रमण से किसी को न छुड़ावे तो उसे प्रथम साहस का दण्ड होता है और यदि उस व्यक्ति के (जिसे पशु मार रहा हो) रक्षा के लिये चिल्लाने पर भी नहीं बचाता तो वह प्रथम साहस के दण्ड से दूना दण्ड का भागी होता है ॥ ३०० ॥ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ ३०१ ॥ किंच, स्ववंशकलङ्कभयाज्जारं पारदारिकं 'चौर ! निर्गच्छे'त्यभिवदन् पञ्च- शतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दाप्यः । यः पुनर्जा रह- स्ताद्धनमुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ यावद् गृहीतं तावदष्ट- गुणीकृतं दण्डं दाप्यः ॥ ३०१ ॥ भाषा—यदि कोई अपने कुल की प्रतिष्ठा बचाने के लिए जार (अर्थात् व्यभिचारी) को चोर-चोर कहकर भाग जाने दे तो उससे पाँच सौ पण दण्ड लेना चाहिए और यदि उस जार से उत्कोच के रूप में धन लेकर उसे छोड़ दे तो उसके अठगुना दण्ड होता है ॥ ३०१ ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ ३०२ ॥ किंच, राज्ञोऽनिष्टस्यानभिमतस्यामित्रैस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापचयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रा निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९।२७५)—'राज्ञः कोशापहतॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद्विवि- धैर्दण्डैररीणां^३ चोपकारकान् ॥' इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छे- दवधरूपैरित्यर्थः । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्यो- पकरणं विना । यथाह नारदः— (१७।१०,११) 'आयुधान्यायुधीयानां बाह्यादी- न्वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान्वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योप- करणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । १. क्षुद्रकाणां पशूनां तु । २. मित्रैस्तवादेः । ३. चोपजापकान् ।