याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 445, कुल 782 में से
संदर्भ में पढ़ेंव्यवहाराध्यायः ३८६ ब्राह्मणस्य पुनः 'न शारीरो ब्राह्मणे दण्डः' (गौ० १२।४६) इति निषेधाद्वध- स्थाने शिरोमुण्डनादिकं कर्तव्यम् - 'ब्राह्मणस्य वधो मौण्ड्यं पुरात्रिर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥ भाषा-पुनः पुनः राजा का अहित कहने वाले, उसकी निन्दा करने वाले और उसकी (राजनीति की) गुप्त बातों को खोलने वाले की जीभ काटकर अपने राज्य से निकाल देना चाहिए ॥ ३०२ ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ ३०३ ॥ किंच' मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रेतुः गुरोः पित्राचार्यादेस्ताडयितुः तथा राजानुमतिं विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्चोत्तम- साहसो दण्डः ॥ ३०३ ॥ भाषा-शव के ऊपर की वस्तु (वस्त्र आदि) बेचने वाले, पिता एवं आचार्य आदि को ताड़ना देने वाले और राजा की सवारी या सिंहासन पर बैठने वाले को उत्तम साहस का दण्ड होता है ॥ ३०३ ॥ द्विनेत्रभेदिनो राजद्विष्टादेशकस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ ३०४ ॥ किंच, यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यैतिरिक्तॊ राज्ञो द्विष्टमनिष्टं 'संवत्सरान्ते तव राज्य- च्युतिर्भविष्यति' इत्येवमादिरूपमादेशं करोति । तथा च यः शूद्रो भोजनार्थं यज्ञोपवीतादीनि ब्राह्मणलिङ्गानि धारयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । 'श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस्तप्त- शलाकया यज्ञोपवीतवद्वपुष्यालिखेत्' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव । - 'द्विजातिलिङ्गिनः शूद्रांश्चातयेत्' इति स्मरणात् ॥ ३०४ ॥ भाषा-किसी की दोनों आँखें फोड़ने वाले, राजा के अनिष्ट (राज्यनाश आदि) की बात फैलाने वाले और शूद्र होकर ब्राह्मण का वेष बनाकर जीविका निर्वाह करने वाले को आठ सौ पण दण्ड होता है ॥ ३०४ ॥ रागलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह - ⁴दुर्दृष्टांस्तु पुनर्द्दष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥३०५॥ १. न शारीरो दण्डः । २. मध्यमसाहसः । ३. हितेप्सु । ४. सभ्य- स्तद्वा तु दुर्दृष्टान्नथ । ५. द्विगुणं पृथक् ।