याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 446, कुल 782 में से
संदर्भ में पढ़ें३६० याज्ञवल्क्यस्मृतिः दुर्द्दष्टान्स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाश- क्क्यमानान् व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोषाः पूर्वसभ्याः संजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः। अप्राप्तजेतृ- दण्डविधिपरत्वाद्धनस्य रागाल्लोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्याः, न जयौ नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः ।—'पादो गच्छति कर्त्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥' (८।१७) इति वचनात् । एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनपरं, न पुनरेकस्यैव पापा- पूर्वस्य विभागाय । यथोक्तम्—'कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य'इति ॥ भाषा—पहले सभासदों द्वारा अधर्मपूर्वक देखे गये व्यवहार पर फिर से न्याय के साथ विचार करके राजा पहले विजयी घोषित किये गये व्यक्ति और सभासदों से विवाद में हारने वाले पर जितना दण्ड होता हो उसका दूना धन पृथक्-पृथक् ले ॥ ३०५ ॥ न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्त्तयितुर्द्दण्डमाह— यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥ ३०६ ॥ यः पुनर्न्यायमार्गेण पराजितोऽपि औद्धत्यात् 'नाहं पराजितोऽस्मि' इति मन्यते तमायान्तं कूटलेख्याद्युपन्यासेन पुनर्धर्माधिकारिणमभितिष्ठन्तं धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्—'तीरितं चानुशि- ष्टं च मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥' इति । तीरितं साक्षिलेख्यादिनिर्णीतमनुद्भूतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डप- र्यन्तं नीतमिति यावत् । यत्पुनर्मनुवचनम् ( ९।२३३ )—'तीरितं चानुशिष्टं च यत्र क्वचन विद्यते । कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्त्तयेत् ॥' इति, तदर्थिप्रत्यर्थिनोरन्यतरवचनाद्व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर्द्विगुणदण्ड- प्रतिज्ञापूर्वकं व्यवहारं प्रवर्त्तयेत् , न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभा- दिना प्रवर्त्तयितव्य इत्येवंपरम् । यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्यं निर्वत्तितं तदपि सभ्यैःपरीक्षणेन धर्म्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञा ज्ञान- कृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥' इति स्मरणात् ॥३०६॥ भाषा—जो न्यायतः पराजित होने पर भी स्वयं को पराजित नहीं मानता उसे पुनः धर्मपूर्वक पराजित करके राजा उससे दुगुना दण्ड वसूल करे ॥३०६॥ १. अपिसहिताः । २. दुर्द्दष्टा तदा । ३. रैकैकस्यैव ।