भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 447, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 447

व्यवहाराध्यायः ३६१ अन्यायगृहीतदण्डधनस्य गतिमाह— राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ ३०७ ॥२ अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतस्तं त्रिंशद्गुणीकृतं वरुणा- येदमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद् गृहीतम- न्यायेन तावत्तस्मै प्रतिदेयम्, इतरथापहारदोषप्रसङ्गात् । अन्यायदण्डग्रहणे पूर्वस्वामिनः स्वत्वविच्छेदाभावाच्चेति ॥ ३०७ ॥ इति श्रीमत्पद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्य- विज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षराख्यायां याज्ञवल्क्यीयधर्म- शास्त्रविवृतौ द्वितीयोऽध्यायो व्यवहाराख्यः संपूर्णः ॥ अथास्मिन्नध्याये प्रकरणानुक्रमणिका कथ्यते । आद्यं साधारणव्यवहारमा- तृकाप्रकरणम् १ । असाधारणव्यवहारमातृकाप्रकरणम् २ । ऋणादानम् ३ । उपनिधिप्रकरणम् ४ । साक्षिप्रकरणम् ५ । लेख्यप्रकरणम् ६ । दिव्यप्रकरणम् ७ । दायविभागः ८ । सीमाविवादः ९ । स्वामिपालविवादः १० । अस्वामिवि- क्रयः ११ । दत्ताप्रदानिकम् १२ । क्रीतानुशयः १३ । अभ्युपेत्याशुश्रूषा १४ । संविद्व्यतिक्रमः १५ । वेतनादानम् १६ । द्यूतसमाह्वयाख्यम् १७ । वाक्पारु- ष्यम् १८ । दण्डपारुष्यम् १९ । साहसम् २० । विक्रियासंप्रदानम् २१ । संभूय- समुत्थानम् २२ । स्तेयप्रकरणम् २३ । स्त्रीसंग्रहणम् २४ । प्रकीर्णकम् २५ । इति पञ्चविंशतिप्रकरणानि ॥ उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥ भाषा—यदि राजा ने अन्याय से कोई दण्ड लिया हो तो स्वयं उसको तीस गुना करके उसे वरुण देवता के लिये संकल्प करके ब्राह्मणों को देवे; (और जिससे जितना धन अन्यायपूर्वक लिया हो उसे उतना धन लौटा देवे) ॥ ३०७ ॥ व्यवहाराध्याय समाप्त १. अन्यायेन तु यो दण्डौ । २. राजभिर्घृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एवमुद्धृतदण्डानां विशुद्धिः पापकर्मिणाम् । स्वधर्मस्थापनाद्राजा प्रजाभ्यो धर्ममश्नुते ॥ यत्र दण्डविधिर्नोक्तः सर्वैरेव महात्मभिः । देशकालादि संचिन्त्य तत्र दण्डो विधीयते ॥