याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 448, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः अथाशौचप्रकरणम् गृहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौच- प्रतिपादनमुखेन तेषामपवादाः प्रतिपाद्यन्ते । 'आशौच'शब्देन च कालस्नाना- द्यपनोद्यः पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुष- गतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम् । 'अशुद्धा बान्धवाः सर्वे' ( मनुः ५।५८ ) इत्यादावशुद्धत्वाभिधानात् । 'अशुद्ध'शब्दस्य च वृद्ध- व्यवहारेऽनाहिताग्निदीक्षितादावनधिकारिमात्रे प्रयोगाभावात् वृद्धव्यवहार- व्युत्पत्तिनिबन्धनत्वाच्च शब्दार्थावगतेः । किंच यद्याशौचिनां दानादिनिषेध- दर्शनात्तदययोग्यत्वमाशौचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्याशौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणी- योऽयं पक्षः ॥ तत्राशौचिभिः सपिण्डाद्यैर्यत्कर्तव्यं तत्तावदाह— ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥ १ ॥ यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृत्तार्थवत् ॥ २ ॥ ऊने अपरिपूर्णे द्वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निदध्यान्न पुनर्द्दहेदित्यर्थः । न च 'सकृत्प्रसिञ्चन्त्युदकम्' ( प्रा. ४ ) इत्यादिभिः प्रेतोद्देशेन विहितमुदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुप- लेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिसंचयरहितायां बहिर्ग्रामा- न्न्निखननीयः । यथाऽऽह मनुः ( ५।६८-६९ )—'ऊनद्विवार्षिकं प्रेतं निदध्यु- र्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ नास्य कार्योंऽग्नि- संस्कारो नापि कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षिपेयुस्त्रयहमेव तु ॥' इति । 'अरण्ये काष्ठवत्त्यक्त्वा' इत्यस्यायमर्थः-यथाऽरण्ये काष्ठं त्यक्त्वो- दासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर्भवितव्यमित्याचारादिप्राप्तश्राद्धाद्यभावोऽ- नेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर्निधातव्यः । १. अत्राशुद्धशब्दस्य च व्यवहारेणाहिताग्नि । २. आश्मशानमनु- ब्राज्य । ३. म्र्तः । ४. नास्य । ५. शवश्च । ६. गायद्भिः ।