याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 458, कुल 782 में से
संदर्भ में पढ़ें४०२ याज्ञवल्क्यस्मृतिः च' इति शङ्खोक्तौ दूर्वाङ्कुरवृषभावपि स्पृष्ट्वा अश्मनि च पदं निधाय शनै- र्द्रुतं वेश्मनि प्रविशेयुः ॥ १२-१३ ॥ भाषा—( कुल वृद्धों के ) इस प्रकार के वचन सुनकर ( शोक त्याग कर ) बालकों को आगे करके घर जावें । घर के द्वार पर खड़े होकर नीम की पत्तियाँ कूँचकर, आचमन करके, अग्नि, जल, गोबर और पीले सरसों का स्पर्श करें और पत्थर पर पैर रखकर धीरे से घर में प्रवेश करें ॥ १२-१३ ॥ अतिदेशमाह— प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां १तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् ॥ १४ ॥ यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म, तन्न केवलं ज्ञाती- नामपि तु परेषामपि धर्मार्थं प्रेतालङ्कारनिर्हरणादिकं कुर्वतां भवति । ‘प्रवे- शनादिकं’ इत्यत्र ‘आदि’ शब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमाभिप्रायः । तेषां च धर्मार्थनिर्हरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्नानप्राणा- यामाभ्यामेव शुद्धिः । यथाह पराशरः—'अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजा- तयः । पदे पदे यज्ञफलमानुपूर्व्या लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा- शुभकर्मणि । जलाremote/जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥' इति ॥ स्नेहादिना निर्हरणे तु मनूक्तो विशेषः ( ५।१०१।१०२ )—'असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् । यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥' इति । अत्रेयं व्यवस्था—यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयमेवान्नमश्नाति, तद्गृहे च वसति, तस्य दशाहेनैव शुद्धिः । यस्तु केवलं तद्गृहे वसति, न पुनस्तद- न्नमश्नाति , तस्य त्रिरात्रम् ; यः पुनर्निर्हरणमात्रं करोति, न तद्गृहे वसति, न च तदन्नमश्नाति, तस्यैकाह इति-एतत्सजातीयविषयम् ; विजातीयविषये पुनर्यजातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तमाशौचं कार्यम् ; यथाह गौतमः ( १४।१९ )—'अवरश्चेद्वर्णः पूर्वं वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छुचोक्तमा- शौचम्' इति । उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासाशौचम् ; शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शववदाशौचं कर्तव्यमित्यर्थः ॥ १४ ॥ भाषा—शव को छूने वाले दूसरे ( सगोत्र बान्धवों से भिन्न ) व्यक्तियों को घर में प्रवेश करने तक की पूर्वोक्त क्रियाएँ करनी होती हैं, यदि वे तत्काल शुद्ध होने का विचार करें तो स्नान और प्राणायाम से ही उनकी शुद्धि हो जाती है ॥ १४ ॥ १. तत्क्षणाच्छुद्धिं । तत्क्षणाच्छुद्धिरन्येषाम् ।