याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 459, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४०३ ब्रह्मचारिणं प्रत्याह— आचार्य्यपितृपाध्यायान्निर्हृत्यापि व्रती व्रती । संकटात्नं न नाश्नीयान्न च तैः सह संवसेत् ॥ १५ ॥ आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायः पूर्वोक्तः, एता- न्निर्हृत्यापि व्रती ब्रह्मचारी ब्रत्येव, न पुनरस्य व्रतभ्रंशः । 'कट'शब्देनाशौचं लक्ष्यते, तत्सहचरितमन्नं सकटात्नं तद्ब्रह्मचारी नाश्नीयात् ; न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे ब्रह्मचारिणो व्रतलोप इत्यर्थादुक्तं भवति । अत एव वसिष्ठेनोक्तम्—'ब्रह्मचारिणः शवकर्म्मिणो व्रतान्त्रि- वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५ ॥ भाषा-आचार्य, मातापिता और उपाध्याय के शव श्मशान तक ले जाने पर भी ब्रह्मचारी व्रती ही रहता है ( उसका व्रत खण्डित नहीं होता ); किन्तु उसे आशौची का अन्न नहीं ग्रहण करना चाहिए और न उनके साथ निवास करना चाहिए ॥ १५॥ आशौचिनां नियमविशेषमाह— क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् २ क्षितौ । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ १६ ॥ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः, भवेयुरिति शेषः । क्रीतलब्धाशननियमात्तदलाभेऽनशनमर्थात्सिद्धं भवति । अत एव वसिष्ठः—'गृहान्प्रव्रज्य अधःप्रस्तरे त्र्यहमश्नन्त आसीरन् क्रीतोत्पन्नेन वा वर्तेरन्' इति । अघप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन्, न खट्वाद्यौ ॥ मनुनाऽप्यत्र विशेषो दर्शितः ( ५।७३ )—'अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥' इति । तथा गौतमेनापि विशेष उक्तः ( १४।३० )—'अधःशय्यासनिन्नो ब्रह्मचारिणः३ शवकर्म्मिणः' इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतिस्वाद्रिरूपया प्रेताय दिनत्रयं पिण्डरूपमन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः—'प्रेतपिण्डं बर्हिर्दादर्भमन्त्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः ॥' इति । दर्भमन्त्रविवर्जितत्वमनु- पनीतविषयम् । 'असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानां कुशेषु' इति प्रचेतः- स्मरणात् । तथा कर्तृनियमश्च गृह्यपरिशिष्टाद्विज्ञेयः—'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति । तथा द्रव्यनियमश्च शूनःपुच्छेन दर्शितः—'शालिना सक्तुभिर्वापि शाकैर्वाऽ- १. स कटान्नं २. पृथक्पृथक् । ३. रिणः सर्व इति । २६ या०