याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 467, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ४११ स्रवतिर्यद्यपि लोके द्रवद्रव्यकर्तृके परिस्पन्दे प्रयुज्यते, तथाऽप्यत्र द्रवाद्ववद्रव्यसा- धारणरूपेऽधःपतने वर्तते । कुतः ? द्रवत्वस्य प्रथममास एव संभवात्तत्र च 'मास- तुल्या निशाः' इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासास्त- त्समसंख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव; 'गर्भस्रावे मासतुत्या रात्रयः स्त्रीणां, स्नानमात्रमेव पुरुषस्य' इति वृद्धवसिष्ठस्मरणात् । यत्पुनर्गौतमेन 'त्र्यहं च' (१४।१८) इति त्रिरात्रमुक्तं,-तन्मासत्रयादर्वाग्वेदितव्यम्; 'गर्भस्रुत्यां यथामासमचिरे तूत्तमे त्रयः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ अष्टाहन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥' इति मरीचिस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थः । एतच्च षष्ठमासपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् ; तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके 'प्रसव'शब्दप्रयोगात्, 'षण्मासाभ्यन्तरे यावद्गर्भस्रावो भवेद्यदा । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अत ऊर्ध्वं स्वजात्युक्तं तासामाशौचमिष्यते । सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥' इति स्मरणात् ॥ एतच्च सपिण्डानां सद्यःशौचविधानं द्रबभूतगर्भपतने वेदितव्यम् । यत्पुनर्वसिष्ठवचनम् (४।३४) —'ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्' इति,-तत्पञ्चमषष्ठयोः कठिनगर्भपतनविषयम्; 'आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥ स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् । पाते मातुर्य- थामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति मृतजनने जातम्ते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् ; 'जातम्ते मृतजाते वा सपिण्डानां दशाहम्' इति हारीतस्मरणात् , ''अतः सूतके चेदो- त्थानादाशौचं सूतकवत्' इति पारस्करवचनाच्च । आ उत्थानादासूतिकाया उत्था- नाह्नाहामिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदानरहित मित्यर्थः । बृहन्मनुरपि—'दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथा च स्मृत्यन्तरोऽपि—'अगतदशाहोपरतस्य सूतिकाद्दोभिरेवाशौचम्' इति । एवमादिवचननिचयपर्यालोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुनर्बृहद्विष्णुवचनम्—'जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्' इति,-तच्छिशूपरमनिमित्तस्याशौचस्य स्नानाच्छुद्धिप्रतिपादनपरं न प्रसविनिमित्तस्य । तथा च पारस्करः—'गर्भे यदि विपत्तिः स्याद्दशाहं सूतकं भवेत्।' सपिण्डानां प्रसविनिमित्तस्य विद्यमानत्वात् ।- 'जीवञ्जातो यदि प्रेयात्सद्य एव विशुद्ध्यति' इति प्रेताशौचाभिप्रायम् । तथा च १. पर्यंतम् । २. अत ऊर्ध्व प्रसबो दशाद्दम् ।