याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 468, कुल 782 में से
संदर्भ में पढ़ें४१२ याज्ञवल्क्यस्मृतिः शङ्खनोक्तम्—'प्राङ्नामकरणात्सद्यःशौचम्' इति । यत्पुनः कात्यायनवचनम्— अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्न प्रेतं नोदक- क्रिया ॥' इति, - तदपि वैष्णवेन समानार्थम् । यद्वा तु 'न प्रेतं नैव सूतक'मिति पाठस्तदा सूतकमस्पृश्यत्वं नैव पित्रादीनां भवतीत्यर्थः । अथवाऽयमर्थः - अन्त- र्दशाहे यदि शिशुरुपरमस्तदा न प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतक- मपि नैव कार्यं, किंतु पूर्वाशौचेनैव शुद्धिरिति । यत्तु बृहन्मनुवचनम्— 'जीवञ्जातो यदि ततो मृतः सूतक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥ इति । यच्च बृहत्प्रचेतोवचनम्— 'मुहूर्तं जीवितो बालः पञ्चत्वं यदि गच्छति । मातुः शुद्धिर्दशाहेन सद्यः शुद्धास्तु गोत्रिणः ॥' इति, तत्रेयं व्यवस्था - जनना- नन्तरं नाभिवर्धनात्प्राङ् मृतौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम् । सद्यः- शौचं त्वग्निहोत्रार्थम् ; 'अग्निहोत्रार्थं स्नानोपस्पर्शानात्तत्कालं शौचम्'इति शङ्ख- स्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रायणेऽपि जनननिमित्तं संपूर्णमाशौचं सपिण्डानाम् । 'यावन्न छिद्यते नाळं तावन्नाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥' इति जैमिनिस्मरणात् । मनुनाऽप्ययमर्थो दर्शितः (५।६६)-'रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशु- द्ध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥' इति पूर्वभागस्यार्थो दर्शितः । उत्तरस्य त्वयमर्थः- रजसि निःसरणादुपरते निवृत्ते रजस्वला स्त्री स्नानेन साध्वी दैवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनरनुपरतेऽपि रजसि चतुर्थे- ऽहनि स्नानाच्छुद्धा भवति । तदुक्तं वृद्धमनुना - 'चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी' इति । तथा स्मृत्यन्तरम् - 'शुद्धां भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥' 'पञ्चमेऽहनि' इति रजो Calderानिवृत्तिका लोपलक्षणार्थम् । यदा रजोदर्शनादारभ्य पुनः सप्तदश दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्येव; अष्टादशे त्वेकाहाच्छुद्धिः, एकोनविंशे द्वयहात् , तत उत्तरेषु त्र्यहाच्छुद्धिः । यथाहान्त्रिः- 'रजस्वला यदि स्नाता पुनरेव रजस्वला । अष्टादशदिनादर्वागशुचित्वं न विद्यते ॥ एकोनविंशतेर्वागे- काहं स्यात्ततो द्वयहम् । विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत् ॥' इति ।— यत्तु 'चतुर्दशदिनादर्वागशुचित्वं न विद्यते' इति स्मृत्यन्तरं, तत्र स्नानप्रभृतिष्व- मभिप्रेतमतो न विरोधः । अयं चाशुचित्वप्रतिषेधो यस्या विंशतिदिनोत्तरकाल- मेव प्रायशो रजोदर्शनं तद्विषयः । यस्याः पुनरारूढयौवनायाः प्रागेवाष्टादशदिना- त्प्राचुर्येण रजोनिर्गमस्तस्यास्त्रिरात्रमेवाशौचम् । तया च यावत्त्रिरात्रं स्नानादि- रहितया स्थातव्यम् ; 'रजस्वला त्रिरात्रमशुचिर्भवति सा च नाञ्जीत नाभ्यञ्जीत
१. सूतकाहोभिः । २. सद्यः शौचास्तु ।